________________
૧૧૪
સામ્યશતક अध्यात्मोपनिषद्विजमौदासीन्यममन्दयन् ।। न किंचिदपि यः पश्येत्स पश्येत् तत्त्वमात्मनः ||८४|| निःसंगतां पुरस्कृत्य यः साम्यमवलम्बते । परमानन्दजीवातौ योगेऽस्य क्रमते मतिः ||८५|| दंभजादपि निःसंगाद् भवेयुरिह संपदः । निःछद्मनः पुनस्तस्मात् किं दवीयः परंपदम् ॥८६।। संगावेशान्निवृत्तानां मा भून्मोक्षो वशंवदः । यत्किंचन पुनः सौख्यं निर्वक्तुं तन्न शक्यते ||८७|| स्फुरत्तृष्णालताग्रंथिर्विषयावर्तदुस्तरः । क्लेशकल्लोलहेलाभिभैरवो भवसागरः ||८८।। विगलद्... बंधकर्माणमद्भुतां समतातरीम् ।। आरुह्य तरसा योगिन् तस्य पारीणतां श्रय ||८९।। शीर्णपर्णाशनप्रायैर्यन्मुनिस्तप्यते तपः । औदासीन्यं विना विद्धि , तद्भस्मनि हुतोपमम् ॥९०|| येनैव तपसा प्राणी मुच्यते भवसंततेः । तदेव कस्यचिन्मोहाद् भवेद् बन्धनिबन्धनम् ||९१।। संतोषः संभवत्येष विषयोपप्लवं विना । तेन निर्विषयं कंचिदानन्दं जनयत्ययम् ॥९२।। वशीभवन्ति सुन्दर्यः पुंसां व्यक्तमनीहया । . यत्परब्रह्मसंवित्तिनिरीहं श्लिष्यति स्वयम् ॥९३।। सूते सुमनसां कंचिदामोदं समतालता । यद्वशादाप्नुयुः सख्यसौरभं नित्यवैरिणः ॥९४।। साम्यब्रह्मास्त्रमादाय विजयन्तां मुमुक्षवः । मायाविनीमिमां मोहरक्षोराजपताकिनीम् ॥९५।।