________________
સામ્યશતક
૧૧૩ मनः पवनयोरैक्यं मिथ्या योगविदो विदुः । बंभ्रमीति यतः स्वैरमतीत्य पवनं मनः ॥७२।। चक्षुष्यद्वेष्यतां भावेष्विन्द्रियैः स्वार्थतः कृताम् । आत्मन् स्वस्याभिमन्वानः, कथं नु मतिमान् भवान् ||७३।। अवधत्से यथा मूढ! ललना-ललिते मनः । मैत्र्यादिषु तथा धेहि, विधेहि हितमात्मनः ॥७४।। आत्मन्येव हिनेदिष्टे निरायासे सुखे सति । किं ताम्यसि बहिर्मूढ! सतृष्णायामिवैणकः ॥७५।। प्रियाप्रियव्यवहृतिर्वस्तुनो वासनावशात् । अंगजत्वे सुतःप्रेयान्, यूकालिक्षमसंमतम् ॥७६।। इदं कृत्रिमकर्पूरकल्पं संकल्पजं सुखम् । रंजयत्यंजसा मुग्धानंतरज्ञानदुःस्थितान् ।।७७।। ममत्वं माम भावेषु वासनातो, न वस्तुतः । औरसादपरत्रापि पुत्रवात्सल्यमीक्ष्यते ||७८|| वासनावेशवशतो ममता न तु वास्तवी । गवाश्वादिनि विक्रीते, विलीनेयं कुतोऽन्यथा ||७९।। विश्वं विश्वमिदं यत्र मायामयमुदाहृतम् । अवकाशोऽपि शोकस्य कुतस्तत्र विवेकिनाम् ।।८०।। धिगविद्यामिमां मोहमयीं विश्वविसृत्वरीम् । यस्याः संकल्पितेऽप्यर्थे तत्त्वबुद्धिर्विजृभते ।।८१।। अनादिवासनाजालमाशातन्तुभिरुम्भितम् ।। निशातसाम्यशस्त्रेण निकृन्तति महामतिः ||८२।। . अनादिमायारजनी, जननीं तमसां बलात् । स्वज्ञानभास्वदालोकादंतं नयति योगविद् ||८३||