________________
૧૧૨
સામ્યશતક अंतरंगद्विषत्सैन्यनासीरैर्वीरकुंजरैः । क्षणादक्षैः श्रुतबलं लीलयैव विलुप्यते ॥६०।। स्वैरचारीन्द्रियाश्वीयविशृंखलपदक्रमैः । विसृत्वरेण रजसा तत्त्वदृष्टिर्विलीयते ॥६१।। इन्द्रियाण्येव पंचेषुर्विधाय किल सायकान् । जगत्त्रयजयी दत्ते पदं वक्षसि विद्विषाम् |६२।। वीरपंचतयीमेतामुरीकृत्य मनोभवः । उपैति सुभटश्रेणी संख्यारेखां न पूरणीम् ॥६३।। अहो संकल्पजन्मायं विधाता नूतनः किल । क्लेशजं दुःखमप्येतद्धत्ते यस्तु सुखाख्यया ||६४।। विषमेषुरयं.... धूर्तचक्रशक्रत्वमर्हति । दुःखं सुखतयादर्शि येन विश्वप्रतारिणा ||६५।। यस्य साम्राज्यचिंतायां प्रधानं हंत योषितः । सोऽपि संकल्पभूः स्वस्य कथं स्थेमानमीहते ॥६६।। दर्शयन्ति रवलवैरतथ्यमपि तात्त्विकम् । या इन्द्रजालिकप्रष्टास्ताः किं विश्रम्भभाजनम् ॥६७|| निजलालाविलं लीढे यथा श्वा शुष्ककीकसम् । स्ववासनारसाज्जन्तुर्वस्तुभिः प्रीयते तथा ॥६८।। विधाय कायसंस्कारमुदारघुसृणादिभिः । आत्मानमात्मनैवाहो, वंचयन्ते जडाशयाः ॥६९।। स्वान्तं विजित्य दुर्दान्तमिन्द्रियाणि सुखं जयेत् । तत्तुः तत्त्वविचारेण जेतव्यमिति मे मतिः ॥७०|| संचरिष्णुरसौ स्वैरं विषयग्रामसीमसु । स्वान्तदंती वशं याति वीतकर्मानुशासनात् ॥७१।।