________________
સામ્યશતક
૧૧૧ आशाः कुवलयन्नुच्चैस्तमो मांसलयन्नयम् । लोभः पुमर्थहंसानां प्रावृषेण्यघनाघनः ||४८|| क्षमाभृदप्रियः साधुवृत्तलक्ष्मीविनाकृतः । मर्यादामदयं लुपन् लोभोऽम्बुनिधिरयं नवः |४९।। लवणो दन्वतो यः स्यादगाधबोधने विभुः । अलंभविष्णुः सोऽप्यस्य नैव वैभवसंविदे ॥५०॥ समंतात् तस्य शोषाय स्वस्थीकृतजलाशयम् । इमं मानससंतोषमगस्तिं श्रय सत्वरम् ||५१।। यस्मै समीहसे स्वांत! वैभवं भवसंभवम् । अनीहयैव तद्वश्यमवश्यं श्रय शंसुखम् ॥५२|| अजितैरिंन्द्रियैरेषः कषायविजयः कुतः? तदेतानि जयेद्योगी वैराग्यस्थेमकर्मभिः ॥५३।। एतानि सौमनस्यस्य द्विषन्ति महतामपि । . स्वार्थसंपत्तिनिष्टानि स्पर्धन्ते हंत दुर्जनैः ||५४|| यद्वामी पिशुनाः कुर्युरनार्यमिह जन्मनि । इन्द्रियाणि तु दुर्वृत्ता, न्यमुत्रापि प्रकुर्वते ||५५।। भोगिनो द्रग्विषाः स्पष्टं द्रशा स्पृष्टं दहंत्यहो । स्मृत्यापि विषयाः पापाः दंदह्यन्ते च देहिनः ॥५६।। विषयेष्विन्द्रियग्रामश्चेष्टमानोऽसमंजसम् । नेतव्यो वश्यतां प्राप्य साम्यमुद्रां महीयसीम् ॥५७।। यदामनन्ति विषयान् विषसब्रह्मचारिणः । तदलीकममी यस्मादिहामुत्रापि दुःखदाः ॥५८।। यदात्मन्येव निःक्लेशं नेदियोऽकृत्रिमं सुखम् । अमिभिः स्वार्थलाम्पट्यादिन्द्रियैस्तद्विबाध्यते ॥५९।।