________________
સામ્યશતક
भर्तुः शमस्य ललितैर्बिभ्रती प्रीतिसंपदम् । नित्यं पतिव्रता वृत्तं क्षांतिरेषा निषेवते ||३६||
૧૧૦
कारणानुगतं कार्यमिति निश्चिनु मानस! निरायासं सुखं सूते यन्निः क्लेशमसौ क्षमा ||३७|| अखर्वगर्व शैलाग्र शृंगादुद्धरकंधरः । पश्यन्नहयुराश्चर्यं गुरुनपि न पश्यति ||३८|| श्रितः ।
उच्चैस्तरमहंकारनगोत्संगमसौ युक्तमेव गुरुन्मानी मन्यते यल्लघीयसः ॥ ३९ ॥
तिरयन्नुज्वलालोकमभ्युन्नतशिराः पुरः । निरुणद्धि सुखाधानं मानो विषमपर्वतः ॥४०॥
मानमहीधरम् ।
मृदुत्वभिदुरोद्योगादेनं मित्वा विधेहि हे स्वात! प्रगुणं सुखवर्तिनीम् ||४१||
किल
चित्रमंभोजिनीकोमलं वज्रसारमहंकारपर्वतं सर्वतः
मार्दवम् ।
स्यति ||४२||
अस्मिन् संसारकान्तारे स्मेरमाया लतागृहे । अश्रान्तं शेरते हंत, पुमांसो हतचेतसः ||४३||
मायावल्लीवितानोऽयं रुद्धब्रह्मांडमंडपः । विधत्ते कामपिच्छायां पुंसां संतापदीपनम् ||४४||
सूत्रयंती गतिं जिह्मां मार्दवं बिभ्रति बहिः I
अजस्त्रं सर्पिणीवेयं माया दंदश्यते जगत् ॥४५॥
प्रणिधाय - ततश्चेतः
तन्निरोधविधित्सया ।
ऋजुतां जांगुलीमेतां शीतांशु महसं स्मरेत् ॥४६॥
लोभद्रुममवष्टभ्य तृष्णावल्लिरुदित्वरी । आयासकुसुमस्फीता, दुःखैरेषा फलेग्रहिः ॥४७॥