________________
સામ્યશતક
१०८
तद्विवेकसुधांभोधौ स्नायं स्नायमनामयः । विनयस्व स्वयं रागभुजंगम महाविषम् ।।२४।। बहिरंतर्वस्तुतत्त्वं प्रथयन्तमनश्वरम् । विवेकमेकं कलयेत्तार्तीयीकं विलोचनम् ॥२५।। उद्दामक्रममाबिभ्रद् द्वेषदंतावली बलात् । धर्माराममयं भिन्दन् नियम्यो जितकर्मभिः ॥२६।। सैष द्वेषशिखी ज्वालाजटालस्तापयन्मनः । निर्वाप्यः प्रशमोद्दामपुष्करावर्तसेकतः ||२७|| वश्या वेश्येव कस्य स्याद्वासना भवसंभवा । विद्वांसोऽपि वशे यस्याः कृत्रिमैः किल किंचितैः ||२८|| यावज्जागर्ति संमोहहेतुः संसारवासना । निर्ममत्वकृते तावत् कुतस्त्या जन्मिनां रुचिः ।।२९।। दोषत्रयमयः सैषः संस्कारो विषमज्वर: .... मेदूरीभूयते येन कषायक्वाथयोगतः ||३०|| तत्कषायानिमांच्छेतुमीश्वरीमविनश्वरम् । पावनां वासनामेनामात्मसात्कुरुते द्रुतम् ||३१।। स्पष्टं दुष्टो ज्वरः क्रोधः चैतन्यं दलयन्नयम् । सुनिग्राह्यः प्रयुज्याशु सिद्धौषधिमिमां क्षमाम् ||३२|| आत्मनः सततस्मेरसदानन्दमयं वपुः । स्फुरल्लुकाजिलस्फातिः कोपोऽयं ग्लपयत्यहो ॥३३।। व्यवस्थाप्य समुन्मीलदहिंसा वल्लिमंडपे । निर्वापय तदात्मानं क्षमा श्रीचन्दन द्रवैः ॥३४।। क्रोधयोधः कथंकारमहंकारं करोत्ययम् । लीलयैव पराजिग्ये क्षमया रामयापि च ॥३५।।