________________
સાભ્યશતક
૧૦૮
येऽनिशं समतामुद्रां विषयेषु नियुअते । करणैश्वर्यधुर्यास्ते योगीनो हि नियोगिनः ||१२|| ममत्ववासना नित्यसुखनिर्वासनानकः । निर्ममत्वं तु कैवल्यदर्शनप्रतिभूः परम् ||१३।। भुव्यभिष्वंग एवायं तृष्णाज्वरभरावहः । निर्ममत्वौषधं तत्र विनियुंजीत योगवित् ॥१४।। पर्यवस्यति सर्वस्य तारतम्यमहो क्वचित् । निर्ममत्वमतः साधु कैवल्योपरि निष्ठितम् ||१५|| ममत्वविषमूर्छालमांतरं तत्त्वमुच्चकैः । तद्वैराग्यसुधासेकाच्चेतयंते .. हि योगिनः ||१६|| विरागो... विषयेष्वेषु परशुभविकानने । समूलकाषं कषित ममता-वल्लिरुल्बणः ।।१७।। शरीरकेऽपि दुःखाय मोहमाधाय तत्पराः । क्लिश्यन्ते जंतवो हंत, दुःस्तरा भववासना ।।१८।। अहो मोहस्य माहात्म्यं विद्वत्स्वपि विज़ुभते । अहंकारभवात्तेषां यदंधं करणं . श्रुतम् ||१९|| श्रुतस्य व्यपर्दशेन विवर्तस्तमसामसौ । अंतः संतमसः स्फातिर्यस्मिन्नुदयमीयुषी ||२०|| केषांचित्कल्पते मोहाद् व्यावभाषीकृते श्रुतम् । . पयोऽपि खलु मंदानां सन्निपाताय जायते ॥२१।। ममत्वपंकं निःशंकं परिमाष्टुं समंततः ।
वैराग्यवारिलहरी । परिरंभपरो भव ॥२२।। .. रागोरग विषज्वालावलीढ़ द्रढचेतनः । _ न किंचिच्चेतति स्पष्टं विवेकविकलः पुमान् ॥२३।।