________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५०९
ता जाव पविसामि । ता अलं एदिणा माणेण ॥ [तस्मात्ताः ] तस्मात् षष्ठी ङस् । ता प्रथमा सि ।
[ता जाव पविसामि ] तस्मात् । अनेन ता० । यावत् । 'अन्त्यव्य०' (१।११) त्लुक् । 'आदेर्यो जः' (१।२४५) या० → जा० जाव ।
'विशंत् प्रवेशने' (१४१५) विश्, प्रपूर्व० । वर्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मिव्० → मि० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१३) प्रविशमि । 'मौ वा' (३।१५४) दीर्घः । 'सर्वत्र ल-व०' (२२७९) लुक् । 'श-षोः सः' (१।२६०) शा० → सा० पविसामि ।
[ता अलं एदिणा माणेण] तस्मात् । अनेन ता० । एतद् । तृतीया टा । 'इदमेतत्कि-यत्तद्भ्यष्टो डिणा' (३।६९) टा० → डिणा० → इणा० इति । 'डित्यन्त्य०' (२।१२११४) अन्त्यस्वरादिलोपः । 'लोकात्' (१२२३) एतिणा । 'तो दोऽनादौ०' (४२६०) ति० → दि० एदिणा । मानेन । 'नो णः' (१२२२८) न० → ण० माणेण ॥२७८॥
मोऽन्त्याण्णो वेदेतोः ॥ ८।४।२७९ ॥
शौरसेन्यामन्त्यान्मकारात्पर इदेतोः परयोर्णकारागमो वा भवति ।।
इकारे - जुत्तं णिमं, जुत्तमिणं । सरिसं णिमं, सरिसमिणं । एकारे - किं णेदं, किमेदं । एवं णेदं, एवमेदं ॥
[मोऽन्त्याण्णो वेदेतोः ] म् पञ्चमी ङसि । अन्त्य पञ्चमी ङसि । ण प्रथमा सि । वा प्रथमा सि । इदेत् सप्तमी ओस्।
[जुत्तं णिमं, जुत्तमिणं] युक्तं इति प्रकृतिः । इदम् । प्रथमा सि । 'इदम इम:' (३।७२) इदम् → इम० । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः । अनेन वा ण आगमः । 'लुक् (१।१०) अलुक् । 'लोकात्' (१।१।३) णिमं । 'आर्यो जः' (१।२४५) यु० → जु० । 'क-ग-ट-ड०' (२७७) क्लु क् । 'अनादौ०' (२१८९) द्वित्वं - त० →त्त० जुत्तं णिमं । पक्षे- इदम् । प्रथमा सि । 'क्लीबे स्यमेदमिणमो च' (३७९) इदम् → इणम् आदेशः । जुत्तं पूर्ववत् । जुत्तमिणं ।
[सरिसं णिमं, सरिसमिणं] सदृशं इमं । अनेन वा ण आगमः । 'दृशः विप्-टक्-सकः' (१।१४२) रि० । 'शषोः सः' (१।२६०) श० → स० सरिसं णिमं । पक्षे- इदम् । प्रथमा सि । 'क्लीबे स्यमेदमिणमो च' (३७९) इदम्० → इणम्० आदेशः । शेषं पूर्ववत् । सरिसमिणं ।
[कि णेदं, किमेदं ] किम् । प्रथमा सि । 'किमः किं (३८०) किम् → कि० । एतद् । प्रथमा सि । 'अन्त्यव्य०' (१०११) द्लुक् । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः । 'तो दोनादौ०' (४।२६०) तस्य दः । अनेन वा ण आगमः । 'लुक्' (१।१०) अलुक् । 'लोकात्' (१।१।३) णेदं किं णेदं । पक्षे- एदं पूर्ववत् । किमेदं । [एवं णेदं, एवमेदं ] एवम् । णेदं - एदं पूर्ववत् । एवं णेदं, एवमेदं ॥२७९॥
एवार्थे य्येव ॥ ८।४।२८० ॥ एवार्थे य्येव इति निपातः शौरसेन्यां प्रयोक्तव्यः ॥ १. वसन्तसेना - मम अब्भुववत्तिणिमित्तं विअ अवावुदं पक्खदुआरअम् । ता जाव पविसामि । [मृ० क. प्रथमे - नवमेऽङ्के]
ममाभ्युपपत्तिनिमित्तमिवापावृतं पक्षद्वारकम् । तद् यावत् प्रविशामि ।