________________
५०८
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[गच्छिस्सिदि] 'गम्लं गतौ' (३९६) गम् । भविष्यन्ती स्यति । 'त्यादीनामाद्य०' (३।१३९) स्यति० → इच् । 'दिरिचेचोः' (४।२७३) इच्० → दि० । अनेन स्सि आगमः । 'गमिष्यमासां छ:' (४।२१५) म० → छ । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१३) गच्छस्सिदि । 'एच्च क्त्वा-तुम्०' (३३१५७) च्छ० → च्छि० गच्छिस्सिदि ॥२७५॥
। अतो डसेर्डादो-डादू ॥ ८।४।२७६ ॥ अतः परस्य ङसेः शौरसेन्यां आदो-आदु इत्यादेशौ डितौ भवतः ॥ दूरादो य्येव । दूरादु ॥ [अतो डसेर्डादो-डादू] अत् पञ्चमी ङसि । ङसि षष्ठी ङस् । डादो-डादु प्रथमा औ ।
[दूरादो य्येव, दूरादु] दूर । पञ्चमी ङसि । अनेन ङसिस्थाने डादो० → आदो० - डादु० → आदु० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) दूरादो दूरादू । ‘एवार्थे य्येव' (४।२८०) य्येव निपातः । दूरत एवेत्यर्थः ॥२७६।।
इदानीमो दाणि ॥ ८।४।२७७ ॥ शौरसेन्यामिदानीमः स्थाने दाणिं इत्यादेशो भवति । 'अनन्तरकरणीयं दाणिं आणवेदु अय्यो || व्यत्ययात् प्राकृतेऽपि अन्नं दाणि बोहिं । [इदानीमो दाणिं] इदानीम् षष्ठी ङस् । दाणि प्रथमा सि ।
[अनन्तरकरणीयं दाणिं आणवेदु अय्यो] अनन्तरकरणीयं इदानीम् । अनेन दाणिम् । 'मोऽनु०' (१।२३) अनुस्वारः दाणि ।
आज्ञापि । 'स्वराणां स्वराः' (४।२३८) ज्ञा० → ज्ञ० । पञ्चमी तुव् । 'णेरदेदावावे' (३।१४९) पि० → पे० । 'पो वः' (१२२३१) पे० → वे० । 'म्न-ज्ञोर्णः' (२।४२) ज्ञ० → ण । 'तो दोऽनादौ०' (४।२६०) तु० → दु० आणवेदु । आज्ञापयतु इत्यर्थः ।
आर्य । 'नवा ? य्यः' (४।२६६) र्य० → य्य० । 'हुस्व: संयोगे' (१।८४) आ० → अ० । प्रथमा सि । 'अतः से?:' (३.२) सि० → डो० → ओ० अय्यो।
[अन्नं दाणिं बोहिं] अन्या । द्वितीया अम् । 'हुस्वोऽमि' (३।३६) अन्या० → अन्य० । 'अधो म-न-याम्' (२।७८) यलुक् । 'अनादौ०' (२८९) द्वित्वं - न० → न० । 'अमोऽस्य' (३५) अलुक् । 'मोऽनु०' (२२३) अनुस्वारः अन्नं ।
इदानीम् । अनेन दाणिम् । 'मोऽनु०' (१२२३) अनुस्वारः दाणिं ।
बोधि । द्वितीया अम् । 'ख-घ-थ-ध-भाम्' (१।१८७) धि० → हि० । 'अमोऽस्य' (३५) अलुक् । 'मोऽनु०' (१९२३) अनुस्वारः बोहिं ॥२७७॥
तस्मात्ताः ॥ ८।४।२७८ ॥ शौरसेन्यां तस्माच्छब्दस्य ता इत्यादेशो भवति ॥
१. नटी-अज्ज ! एवं णेदम् । अणन्तरकरणिज्जं दाणि आणवेदु अज्जो । [अभि० शा० प्रथमेऽङ्के] आर्य ! एवमेतत् । अनन्तरकरणीयमिदानीमाज्ञापयतु आर्यः ।