________________
५१०
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
मम य्येव बम्हणस्स । सो य्येव एसो ॥ [एवार्थे य्येव] एवार्थ सप्तमी ङि । य्येव प्रथमा सि ।
[मम य्येव बम्हणस्स ] अस्मद् । षष्ठी ङस् । 'मे-मइ-मम-मह-महं०' (३।११३) ङसा सह अस्मद् → मम आदेशः । एव । अनेन एवस्थाने य्येव । ब्राह्मण । षष्ठी ङस् । 'ङसः स्सः' (३।१०) ङस्० → स्स० । 'पक्ष्म-श्म-ष्मस्म-मां म्हः' (२७४) म० → म्ह० । 'हस्व: संयोगे' (१९८४) ब्रा० → ब्र० । 'सर्वत्र ल-व०' (२७९) लुक् बम्हणस्स ।
[सो य्येव एसो] तद् । प्रथमा सि । 'अन्त्यव्य०' (१।११) द्लुक् । 'तदश्च तः सोऽक्लीबे' (३८६) त० → स० । 'वैतत्तदः' (३३) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोपः सो।
एव । अनेन एवस्थाने य्येव । एतद् । प्रथमा सि । 'अन्त्यव्य०' (१।११) द्लुक् । 'तदश्च०' (३८६) त० → स० । 'बैतत्तदः' (३।३) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अन्त्यस्वरादिलोपः एसो ॥२८०॥
ह) चेट्याह्वाने ॥ ८।४।२८१ ॥ शौरसेन्यां चेट्याह्वाने हळे इति निपातः प्रयोक्तव्यः ॥ हले चदुरिके ! ॥ [हले चेट्याह्वाने ] हङ्गे प्रथमा सि । चेट्याह्वान सप्तमी ङि ।
[हले चदुरिके !] हङ्गे अनेन सिद्धम् । चदुरिका । आमन्त्र्ये सि । 'वाप ए' (३।४१) का० → के० । 'अन्त्यव्य०' (१।११) स्लुक् चदुरिके ! ॥२८१॥ .
हीमाणहे विस्मय-निर्वेदे ॥ ८।४।२८२ ॥ शौरसेन्यां हीमाणहे इत्ययं निपातो विस्मये निर्वेदे च प्रयोक्तव्यः । विस्मये - हीमाणहे जीवन्त-वश्चा मे जणणी ॥ निर्वेदे - हीमाणहे पलिस्सन्ता हगे एदेण नियविधिणो दुव्ववसिदेण ॥ [हीमाणहे विस्मय-निर्वेदे] हीमाणहे प्रथमा सि । विस्मय-निर्वेद सप्तमी ङि ।
[हीमाणहे जीवन्त-वचा मे जणणी] हीमाणहे अनेन । जीवद्वत्सा । 'शत्रानशः' (३।१८१) अत्० → न्त० जीवन्त । 'हुस्वात् थ्य-श्च-त्स०' (२।२१) त्सा० → छा० । 'छस्य श्चोऽनादौ' (४।२९५) छा० → श्चा० वश्चा ।
अस्मद् । षष्ठी ङस् । 'मे-मइ-मम-मह-महं०' (३।११३) ङसा सह अस्मद् → मे आदेशः ।
[हीमाणहे पलिस्सन्ता हगे एदेण निअविधिणो दुव्ववसिदेण] परिश्रान्ता । 'र-सोल-शौ' (४।२८८) रि० → लि० । 'सर्वत्र ल-व०' (२७९) लुक् । 'श-षोः सः' (१।२६०) शा० → सा० । 'अनादौ०' (२।८९) द्वित्वं-सा० → स्सा० । 'हुस्वः संयोगे' (१९८४) स्सा० → स्स० । प्रथमा जस् । 'जस्-शस्-ङसि०' (३।१२) दीर्घः । 'जस्-शसोलुंक् (३।४) जस्लुक् पलिस्सन्ता ।
वयम् । 'अहं-वयमोहंगे' (४।३०१) वयम् → हगे० । एतेन । 'तो दोऽनादौ०' (४।२६०) ते० → दे० । 'नो णः' (१।२२८) न० → ण० एदेण ।