________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
[पज्जलिदो भयवं हुदासणो] भगवान् पूज्यो हुताशन: प्रज्वलित इत्यर्थः । भयवं अनेन सिद्धम् । [ मघवं पागसासणे ] मघवा(व)न् । अनेन न्० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः मघवं ।
पाकशासन । प्रथमा सि । 'अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फां ग-घ-द-ध-ब-भाः' (४।२९६) कस्य गः । 'श-षोः सः' (१२२६०) शा० → सा० । 'अत एत्सौ पुंसि०'. (४।२८७) न० → ने० । 'अन्त्यव्य०' (१।११) स्लुक् पागसासणे।
[संपाइअवं सीसो] संपादितवान् । अनेन न्० → म्० । शेषं सुगमम् । संपाइअवं । [कयवं करेमि काहं च] कृतवान् । अनेन न् → म्० । 'वाऽव्ययोत्खाता०' (१।६७) वा० → व० कयवं ।
'डुइंग् करणे' (८८८) कृ। वर्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मिव्० → मि० । 'ऋवर्णस्याऽर:' (४।२३४) कृ० → कर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (११०३) करमि । 'वर्तमाना-पञ्चमी-शतृषु वा' (३।१५८) र० → रे० करेमि ।
'डुइंग करणे' (८८८) कृ । भविष्यन्ती स्यामि । 'तृतीयस्य मिः' (३।१४१) स्यामि० → मि० । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । 'कृ-दो हं' (३।१७०) हिना सह मिस्थाने हं । 'आः कृगो भूत-भवि०' (४।२१४) कृ० → का० काहं । अकार्षमित्यर्थः ॥२६५॥
- नवा र्यो य्यः ॥ ८।४।२६६ ॥ शौरसेन्यां यस्य स्थाने य्यो वा भवति ।। अय्यउत्त ! पय्याकलीकदम्हि । सय्यो । पक्षे-अज्जो । पज्जाउलो । कज्जपरवसो । [नवा र्यो य्यः ] नवा प्रथमा सि । षष्ठी ङस् । य्य प्रथमा सि ।
[अय्यउत्त ! पय्याकुलीकदम्हि] आर्यपुत्र ! पर्याकुलीकृतास्मि । 'हुस्वः संयोगे' (१९८४) आ० → अ० । अनेन र्यस्य य्यः । 'तो दोऽनादौ०' (४।२६०) त० → द० । 'पक्ष्म-श्म-ष्म-स्म-मां म्हः' (२७४) स्मि० → म्हि० । शेषं सुगमम् । अय्यउत्त ! पय्याकुलीकदम्हि।
[सुय्यो] सूर्य । अनेन र्यस्य य्यः । 'हस्वः संयोगे' (१।८४) सू० → सु० सुय्यो । पक्षे
[अज्जो ] आर्य । प्रथमा सि । 'द्य-य्य-र्यां जः' (२०२४) र्यस्य जः । 'अनादौ०' (२।८९) द्वित्वं - ज० → ज्ज० । शेषं सुगमम् । अज्जो ।
[पज्जाउलो] पर्याकुल । प्रथमा सि । 'द्य-यय-यां जः' (२।२४) र्यस्य जः । 'अनादौ०' (२८९) द्वित्वं - ज० → ज्ज० । शेषं सुगमम् । पज्जाउलो ।
[कज्जपरवसो] कार्यपरवश । प्रथमा सि । अनेन र्यस्य जः । 'अनादौ०' (२१८९) द्वित्वं - ज० → ज्ज० । 'हूस्वः संयोगे' (१८४) का० → क० । 'श-षोः सः' (१।२६०) श० → स० कज्जपरवसो ॥२६६॥
थो धः ॥८॥४॥२६७ ॥ शौरसेन्यां थस्य धो वा भवति ॥ कधेहि कहेदि । णाधो णाहो । कधं कहं । राजपधो राजपहो ॥ अपदादावित्येव - थामं । थेओ ॥