________________
५०२
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[भयवं ! कुसुमाउह !] भगवन् ! कुसुमायुध ! । 'क-ग-च-ज०' (१।१७७) ग्लुक् । 'अवर्णो०' (१।१८०) अ० → य० । अनेन वा न्० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः भयवं ! ।
'क-ग-च-ज०' (१।१७७) यलुक् । 'ख-घ-थ०' (१।१८७) ध० → ह० कुसुमाउह !।
[भयवं ! तित्थं पवत्तेह] भयवं पूर्ववत् । तीर्थम् । 'हुस्वः संयोगे' (११८४) ती० → ति० । 'सर्वत्र ल-व०'. (२७९) लुक् । 'अनादौ०' (२।८९) द्वित्वं - थ्थ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वथस्य तः तित्थं ।
'वृतूङ् वर्तने' (९५५) वृत्, प्रपूर्व० । प्रवर्त्तमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । पञ्चमी त । 'ऋतोऽत्' (१।१२६) वृ० → व० । 'णेरदेदावावे' (३।१४९) णिग् → ए० । 'बहुषु न्तु-ह-मो' (३।१७६) त० → ह० । 'सर्वत्र ल-व०' (२।७९) लुक् । 'अनादौ०' (२।८९) द्वित्वं-ते० → त्ते० पवत्तेह । पक्षे
[सयल-लोअ-अन्तेआरि ! भयव ! हुदवह !] सकललोकान्तारिन् ! । 'हस्वः संयोगे' (१९८४) का० → क० । 'क-ग-च-ज०' (१३१७७) कुलुक । 'अन्त्यव्यः ' (१।११) रलक । 'तोऽन्तरि' (१।६०) न्त० ते च-ज०' (१।१७७) च्लुक् । 'अन्त्यव्य०' (१।११) न्लुक् सयललोअअन्तेआरि ! । हे भगवन् ! । 'अन्त्यव्य०' (१।११) न्लुक् भयव ! । हुतवह ! । 'तो दोऽनादौ०' (४।२६०) त० → द० हुदवह ! ॥२६४॥
भवद्भगवतोः ॥ ८।४।२६५ ॥ आमन्त्र्य इति निवृत्तम् ॥ शौरसेन्यामनयोः सौ परे नस्य मो भवति ॥ किं एत्थभवं हिदएण चिन्तेदि ? । एदु भवं । समणे भगवं महावीरे । पज्जलिदो भयवं हुदासणो ॥ क्वचिदन्यत्रापि - मघवं पागसासणे । संपाइअवं सीसो । कयवं करेमि काहं च ॥ [भवद्भगवतोः] भवद्भगवत् षष्ठी ओस् ।
[किं एत्थभवं हिदएण चिन्तेदि ? ] एतद् । सप्तमी ङि । 'के. स्सि-म्मि-त्थाः' (३५९) ङि ,त्थ० । 'त्थे च तस्य लुक्' (३।८३) तलुक् । 'अन्त्यव्य०' (१।११) द्लुक् एत्थ । भवान् । प्रथमा सि । अनेन न्० → म्० । 'वाऽव्ययोत्खातादावदातः' (१।६७) वा० → व० । 'मोऽनु०' (१९२३) अनुस्वारः । 'अन्त्यव्य०' (१।११) स्लुक् भवं ।
'चितुण स्मृत्याम्' (१६४५) चित् । वर्त्तः तिव् । 'उदितः स्वरा०' (४।४।९८) नोऽन्तः । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इच् । 'दिरिचेचोः' (४।२७३) इच् → दि० । 'वर्त्तमाना-पञ्चमी०' (३।१५८) एत्वम् चिन्तेदि । भवानत्र हृदयेन किं चिन्तयतीत्यर्थः ।।
[एदु भवं] 'इंण्क् गतौ' (१०७५) इ । पञ्चमी तुव् । 'तो दोऽनादौ०' (४।२६०) तु० → दु० । 'युवर्णस्य गुणः' (४।२३७) इ० → ए० एदु । भवं पूर्ववत् । भवान् एतु इत्यर्थः । । . [समणे भगवं महावीरे ] श्रमण । प्रथमा सि । 'सर्वत्र ल-व०' (२१७९) लुक् । 'अत एत्सौ पुंसि मागध्याम्' (४।२८७) ण० → ० । 'अन्त्यव्य०' (१।११) स्लुक् समणे । भवं अनेन सिद्धम् । महावीरं । 'अत एत्सौ पुंसि०' (४।२८७) र० → रे० महावीरे ।
१. विदूषकः - एदु भवं । एतु भवान् । [अभि० शा० द्वितीयेऽङ्के] २. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे । [कल्पसूत्रे प्रथमे क्षणे]
तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः ।