________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
५०१
[दाव ताव] तावत् (२) । प्रथमा सि । अनेन वा ता० → दा० । 'अन्त्यव्य०' (११११) त्लुक् । 'अव्ययस्य' (३।२७) सिलुप् दाव ताव ॥२६२।।
आ आमन्त्र्ये सौ वेनो नः ॥ ८४२६३ ॥ शौरसेन्यामिनो नकारस्य आमन्त्र्ये सौ परे आकारो वा भवति ॥ भो कञ्चइआ ! । भो सुहिआ ! । पक्षे-भो तवस्सि ! | भो मणस्सि ! ॥
[आ आमन्त्र्ये सौ वेनो नः ] आ प्रथमा सि । आमन्त्र्य सप्तमी ङि । सि सप्तमी ङि । वा प्रथमा सि । इन् षष्ठी ङस् । न् षष्ठी ङस् ।
[भो कञ्चइआ !] भोः कञ्चुकिन् ! । भोस् इत्यव्ययं स्लुपि सिद्धम् । प्रथमा सि । 'क-ग-च-ज०' (१११७७) क्लुक् । अनेन न० → आ० । 'अन्त्यव्य०' (१।११) स्लुक् भो कञ्चइआ !।
[भो सुहिआ !] भोः सुखिन् ! । अनेन न्० → आ० । 'ख-घ-थ-ध-भाम्' (१११८७) खि० → हि० सुहिआ !।
[भो तवस्सि ! ] भोः तपस्विन् ! । 'अन्त्यव्यञ्जनस्य' (१।११) नलुक् । 'पो वः' (१।२३१) प० → व० । 'सर्वत्र ल-व०' (२।७९) व्लुक् । 'अनादौ०' (२।८९) द्वित्वम् । भो तवस्सि !।
[भो मणस्सि !] भो मनस्विन् ! । 'अन्त्यव्यः' (१२११) न्लुक् । 'नो णः' (१।२२८) न० → ण । 'सर्वत्र लव०' (२।७९) व्लुक् । 'अनादौ०' (२१८९) द्वित्वम् । भो मणस्सि ! ॥२६३।।
मो वा ॥८।४।२६४ ॥ शौरसेन्यामामन्त्र्ये सौ परे नकारस्य मो वा भवति ॥
भो रायं ! । भो विअयवम्मं ! । भो सुकम्मं ! । र्भयवं ! कुसुमाउह ! । भयवं ! तित्थं पवत्तेह । पक्षे-सयल-लोअअन्तेआरि ! भयव ! हुदवह ! ॥
[मो वा] म प्रथमा सि । वा प्रथमा सि ।
[भो रायं !] भो राजन् ! । प्रथमा सि । अनेन वा न्० → म् । 'अन्त्यव्य०' (११११) स्लुक् । 'क-ग-च-ज०' (१।१७७) ज्लुक् । 'अवर्णो०' (१।१८०) अ० → य० । 'मोऽनु०' (१।२३) अनुस्वारः भो रायं !। _ [भो विअयवम्मं !] भो विगतवर्मन् ! । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) ग-तयोर्लुक् । 'अवर्णो०' (१।१८०) अ० → य० । 'क-ग-ट-ड०' (२७७) त्लु क् । 'सर्वत्र ल-व०' (२७९) लुक् । 'अनादौ०' (२१८९) द्वित्वम् । अनेन वा न्० → म्० । 'अन्त्यव्य०' (१।११) स्लुक् । 'मोऽनु०' (१।२३) अनुस्वारः भो विअयवम्मं ! ।
[भो सुकम्मं !] भोः सुकर्मन् ! । प्रथमा सि । 'सर्वत्र ल-व०' (२२७९) लुक् । 'अनादौ०' (२।८९) द्वित्वम् । अनेन वा न्० → म्० । 'मोऽनु०' (१२२३) अनुस्वारः । 'अन्त्यव्य०' (२८९) स्लुक् भो सुकम्मं !।
१. [अभि० शा० तृतीयेऽङ्के] २. जय जय नंदा ! जय जय भद्दा ! भदं ते जय जय खत्तियवरवसहा ! बुज्झाहि भगवं ! लोगनाहा ! सयलजगज्जीवहियं पवत्तेहि धम्मतित्थं हिअसुहनिस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सइ त्ति कटु जय जय सदं पउंजंति ॥१११॥ [कल्पसूत्रे पञ्चमे क्षणे] एए देवनिकाया भयवं बोहेति जिणवरिंदं तु । भद्द ! जगज्जीवहियं भयवं ! तित्थं पवत्तेह ॥ [अनु० अङ्कः -६६] एते देवनिकाया भगवन्तं बोधयन्ति जिनवरेन्द्रं तु । भद्र ! जगज्जीवहितं भगवन् ! तीर्थं प्रवर्तय ॥