________________
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
अनुकम्पनीया । प्रथमा सि । 'नो णः' (११२२८) नु० → णु० - नी० → णी० । 'क-ग-च-ज०' (१।१७७) य्लुक् । 'अन्त्यव्य०' (१।११) स्लुक् अणुकम्पणीआ ।
'भू सत्तायाम्' (१) भू । वर्त० मिव् । 'तृतीयस्य मिः' (३।१४१) मिव्० -→ मि० । 'भुवेर्हो हुव-हवाः' (४।६०) . भू० → हो० । 'भुवो भः' (४।२६९) हो० → भो० भोमि ।
तथा कुरुध्वं यथा तस्य राज्ञोऽनुकम्पनीआ भवामीत्यर्थः ।। [मत्तो] मत्त: संस्कृतरूपम् ।
[अय्यउत्तो] आर्यपुत्र । प्रथमा सि । 'नवा र्यो य्यः' (४।२६६) र्य० → य्य० । 'हूस्वः संयोगे' (१९८४) आ० → अ० । 'सर्वत्र ल-व०' (२७९) लुक् । 'क-ग-च-ज०' (१२१७७) प्लुक् । 'अनादौ०' (२२८९) द्वित्वं - त० → त्तः । 'अत: सेझैः' (३।२) सि० → डो० → ओ० अय्यउत्तो ।
['असंभाविद-सक्कारं] असंभावित-सत्कारम् । 'तो दोनादौ शौरसेन्यामयुक्तस्य' (४।२६०) तस्य दः । 'क-ग-टड०' (२७७) त्लुक् । 'अनादौ०' (२।८९) द्वित्वं-का० → का० असंभाविद-सक्कारं ।
[हला सउन्तले !] हला इति सख्या आमन्त्रणे मामि-हला-हले इत्यर्थः । शकुन्तला । सम्बो० सि । 'श-षोः सः' (१।२६०) शस्य सः । 'क-ग-च-ज०' (१।१७७) क्लुक् । 'वाप ए' (३।४१) ला० → ले० । 'अन्त्यव्य०' (१।११) स्लुक् सउन्तले ! ॥२६०॥
अधः क्वचित् ॥ ८।४।२६१ ॥ वर्णान्तरस्याऽधोवर्तमानस्य तस्य शौरसेन्यां दो भवति, क्वचिल्लक्ष्यानुसारेण ॥ महन्दो । निच्चिन्दो । अन्देउरं ॥ [अधः क्वचित् ] अधः सप्तमी ङि । क्वचित् प्रथमा सि ।
[महन्दो ] महत् । गोणादित्वात् महन्त । प्रथमा सि । अनेन तस्य दः । 'अत: से?:' (३।२) सि० → डो० → ओ० महन्दो ।
[निच्चिन्दो] निश्चिन्त । प्रथमा सि । 'क-ग-ट-ड०' (२१७७) शूलुक् । 'अनादौ०' (२।८९) द्वित्वं - चि० → च्चि० । अनेन तस्य दः । 'अत: से?:' (३२) सि० → डो० → ओ० निच्चिन्दो।
[अन्देउरं] अन्तर्-पुर । प्रथमा सि । अनेन तस्य दः । 'अन्त्यव्य०' (१२११) लुक् । 'तोऽन्तरि' (१२६०) दे० । 'क-ग-च-ज०' (१।१७७) प्लुक् । 'क्लीबे०' (३६२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः अन्देउरं ॥२६१।।
वादेस्तावति ॥ ८।४।२६२ ॥ शौरसेन्यां तावच्छब्दे आदेस्तकारस्य दो वा भवति ॥ दाव । ताव ॥ [वादेस्तावति ] वा प्रथमा सि । आदि षष्ठी ङस् । तावत् सप्तमी ङि ।
१. सख्यौ-अज्ज ! असंभाविदअइहिसक्कारं भूओ वि पेक्खणणिमित्तं लज्जेमो अज्जं विण्णविद् । [अभि० शा० प्रथमेऽङ्के]
आर्य ! असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जावहे आर्य विज्ञापयितुम् ॥ २. प्रियंवदा - हला सउन्दले ! एत्थ एव्व दाव मुहुत्तअं चिट्ठ । [अभि० शा० प्रथमेऽङ्के]
हला शकुन्तले ! अत्रैव तावन्मुहूर्तं तिष्ठ ।