________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
[उच्चुपइ ] 'चुप मन्दायां गतौ' (३४२) चुप्, उत्पूर्व० । उच्चुपइ। .. [उछुहइ ] 'लुहं हिंसा-मोहयोः' (७६) लुह इति सौत्रो धातुः, उत्पूर्व० । उहइ ॥२५९॥
तो दोऽनादौ शौरसेन्यामयुक्तस्य ॥ ८।४।२६० ॥ शौरसेन्यां भाषायामनादावपदादौ वर्तमानस्य तकारस्य दकारो भवति, न चेदसौ वर्णान्तरेण संयुक्तो भवति ॥ तदो पूरिद-पदिजेन मारुदिनामन्तिदो । एतस्मात् → एदाहि-एदाओ ॥ अनादाविति किम् ? तधा करेध जधा तस्स राइणो अणुकम्पणीआ भोमि । अयुक्तस्येति किम् ? मत्तो । अय्यउत्तो । असंभाविद-सक्कारं । हला सउन्तले ! ॥
[तो दोऽनादौ शौरसेन्यामयुक्तस्य ] त् षष्ठी ङस् । द प्रथमा सि । अनादि सप्तमी ङि । शौरसेनी सप्तमी ङि । अयुक्त षष्ठी ङस् ।
[तदो पूरिद-पदिओन मारुदिनामन्तिदो] ततः । अनेन तस्य दः । 'अतो डो विसर्गस्य' (१।३७) विसर्गस्य डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् तदो।
पूरितप्रतिज्ञ । तृतीया टा । अनेन तस्य दः । 'टा-आमोर्णः' (३।६) टा० → ण । 'टाण-शस्येत्' (३।१४) ज्ञ० → ज्ञे० । 'णो नः' (४।३०६) णस्य नः । 'न्य-ण्य-ज्ञ-जां ञः' (४।२९३) शे० → जे० । 'सर्वत्र ल-व०' (२२७९) लुक् पूरिद-पदिजेन ।
मारुति । तृतीया टा । 'टो णा' (३।२४) टा० → णा० । 'णो नः' (४३०६) णा० → ना० । अनेन तस्य दः मारुदिना । आमन्त्रित । प्रथमा सि । 'सर्वत्र ल-व०' (२२७९) लुक् । अनेन तस्य दः । 'अत: से?:' (३२) सि० → डो० → ओ० आमन्तिदो । तेन(ततः) पूरितप्रतिज्ञेन हेतुमता आमन्त्रित इत्यर्थः ।
[एदाहि एदाओ] एतद् (२) । पञ्चमी ङसि । 'ङसेस्त्तो-दो-दु-हि०' (३८) ङसिस्थाने हि०-दो० । 'अन्त्यव्य०' (१।११) द्लुक् । 'क-ग-च-ज०' (११७७) द्लुक् । 'जस्-शस्-ङसि-त्तो-दो०' (३।१२) दीर्घः - त० → ता० । अनेन ता० → दा० एदाहि एदाओ । एतस्मादित्यर्थः ।
[तधा करेध जधा तस्स राइणो अणुकम्पणीआ भोमि ] तथा । 'थो धः' (४।२६७) था० → धा० तथा ।
'डुइंग् करणे' (८८८) कृ । पञ्चमी ध्वम् । 'ऋवर्णस्याऽर:' (४।२३४) कृ० → कर० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) करध्वम् । 'वर्तमाना-पञ्चमी - शतृषु वा' (३।१५८) र०. → रे० । 'बहुषु न्तु-ह-मो' (३।१७६) ध्वम् → ह० । 'इह-हचोर्हस्य' (४।२६८) हकारोपलक्षणत्वात् हस्यापि ध० करेध ।
यथा । प्रथमा सि । 'आदेर्यो जः' (१२२४५) यस्य जः । 'थो धः' (४।२६७) था० → धा० । 'अव्ययस्य' (३।२७) सिलुप् जधा।
तद् । षष्ठी ङस् । 'ङसः स्सः' (३।१०) ङस्० → स्स० । 'अन्त्यव्य०' (१।११) द्लुक् तस्स ।
राजन् । षष्ठी ङस् । 'अन्त्यव्य०' (११११) नलुक् । 'जस्-शस्-ङसि-ङसां णो' (३५०) ङस् → णो० । 'इर्जस्य णो-णा-डौ' (३।५२) ज० → जि० । 'क-ग-च-ज०' (१।१७७) जुलुक् राइणो ।
१. शकुन्तला- तं जइ वो अणुमदं ता तह वट्टह जह तस्स राएसिणो अणुकम्पणिज्जा होमि । [अभि० शा० तृतीयेऽङ्के]
तद्यदि वामनुमतं तदा तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि ।