________________
४९८
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
(३।१६०) क्य० → इज्ज० इति । 'लुक' (१।१०) अलुक् । 'लोकात्' (१।१।३) छिविज्जते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० छिविज्जइ ॥२५७।।
क्तेनाऽप्फुण्णाऽऽदयः ॥ ८।४।२५८ ॥ अप्फुण्णादयः शब्दा आक्रमिप्रभृतीनां धातूनां स्थाने क्तेन सह वा निपात्यन्ते ।
अप्फुण्णो आक्रान्तः । उक्कोसं उत्कृष्टम् । फुडं स्पष्टम् । वोलीणो अतिक्रान्तः । वोसट्टो विकसितः । निसुट्टो निपातितः । लुग्गो रुग्णः । ल्हिक्को नष्टः । पम्हट्ठो प्रमृष्टः प्रमुषितो वा । विढत्तं अर्जितम् । छित्तं स्पृष्टम् । निमिअं स्थापितम् । चक्खिअं आस्वादितम् । लु लूनम् । जढं व्यक्तम् । झोसिअंक्षिप्तम् । निच्छूढं उद्धृत्तम् । पल्हत्थं पलोट्टं च पर्यस्तम् । होसमणं हेषितम् इत्यादि ।
[क्तेनाऽप्फुण्णाऽऽदयः] क्त तृतीया टा । अप्फुण्णाऽऽदि प्रथमा जस् ।
[अप्फुण्णो ] आपूर्व० 'क्रमू पादविक्षेपे' (३८५) क्रम् । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त० । अनेन क्तप्रत्ययेन सह क्रमस्थाने अप्फुण्ण इति निपातः । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० अप्फुण्णो ।
[उक्नोसं] उत्कृष्ट । अनेन उक्कोसं इति निपातः ॥ एवं सर्वत्र निपातः ॥२५८।।
धातवोऽर्थान्तरेऽपि ॥ ८।४।२५९ ॥ उक्तादर्थादर्थान्तरेऽपि धातवो वर्तन्ते ।।
बलिः प्राणने पठितः खादनेपि वर्तते । बलइ । खादति प्राणनं करोति वा ॥ एवं कलिः संख्यानं संज्ञानेऽपि । कलइ। जानाति संख्यानं करोति वा ॥ रिगिर्गतौ प्रवेशेऽपि । रिगइ । प्रविशति गच्छति वा ॥ काङ्क्षतेर्वम्फ आदेशः प्राकृते । वम्फइ । अस्यार्थः - इच्छति खादति वा || फक्कतेस्थक्क आदेशः । थक्कइ । नीचां गतिं करोति विलम्बयति वा ॥ विलप्युपालम्भ्योझल आदेशः । झलइ । विलपति उपालभते भाषते वा ॥ एवं - पडिवालइ । प्रतीक्षते रक्षति वा ॥
केचित् कैश्चिदुपसगैनित्यम् । पहरइ युध्यते । संहरइ संवृणोति । अणुहरइ सदृशीभवति । नीहरइ पुरीषोत्सर्गं करोति । विहरइ क्रीडति । आहरइ खादति । पडिहरइ पुनः पूरयति । परिहरइ त्यजति । उवहरइ पूजयति । वाहरइ आह्वयति । पवसइ देशान्तरं गच्छति । उच्चुपइ चटति । उल्लहइ निःसरति ॥
[धातवोऽर्थान्तरेऽपि] धातु प्रथमा जस् । अर्थान्तर सप्तमी ङि । अपि प्रथमा सि । । [झलइ ] रप (३३५) - ‘लप व्यक्ते वचने' (३३६) लप्, विपूर्व० । वर्त० तिव् । 'विलपेझङ्ख-वडवडौ' (४।१४८) विलप० → झङ्ख० इति । अथवा उप-आपूर्व० 'डुलभिष् प्राप्तौ' (७८६) लभ् । वर्त० ते । 'उपालम्भेर्झङ्खपच्चार-वेलवाः' (४।१५६) उपसर्गेण सह लभस्थाने झङ्ख इति । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० झखइ ।
[पडिवालइ] प्रतिपूर्व० 'पलण् रक्षणे' (१६९९) पल् । वर्त्तः तिव् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । ‘णेरदेदावावे' (३।१४९) णिच् → अत्० । 'लोकात्' (१।१।३) प्रतिपालति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । 'सर्वत्र ल-व०' (२१७९) रलुक् । 'प्रत्यादौ डः' (१।२०६) ति० → डि० 'पो व:' (१२२३१) पा० → वा० पडिवालइ।