________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
आरभेराढप्पः ॥ ८।४।२५४ ॥ आपूर्वस्य रभे: कर्म-भावे आढप्प आदेशो वा भवति, क्यलुक् च ॥ आढप्पइ । पक्षे- आढवीअइ ।। [ आरभेराढप्पः ] आरभि षष्ठी ङस् । आढप्प प्रथमा सि ।
[आढप्पड़ ] आयूर्व० 'रभिं राभस्ये' (७८५) रभ् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यंप्र० → य० । अनेन उपसर्गेण सह आरभ्० → आढप्प० इति - क्यस्य च लुक् । 'त्यादीनामाद्य०' (३३१३९) ते० → इ० आढप्पइ ।
पक्षे-[ आढवीअइ] आपूर्व० रभ् । वर्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । 'आङो रभे रम्भ-ढवौ' (४/१५५) आरभ० → आढव० इति । 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → ईअ० । 'लुक् (११०) "व" मध्यादस्य लुक् । 'लोकात्' (११३) आढवीअते । 'त्यादीनामाद्य०' (३१३९) ते० → इ० आढवीअइ । आरभ्यते इत्यर्थः ॥२५४॥
स्निह-सिचोः सिप्पः ॥ ८।४।२५५ ॥ अनयोः कर्म-भावे सिप्प आदेशो वा भवति, क्यलुक् च ॥ सिप्पइ स्निह्यते सिच्यते वा ॥ [स्निह-सिचोः सिप्पः] स्निह-सिच् षष्ठी ओस् । सिप्प प्रथमा सि ।।
[सिप्पड़ ] 'ष्णिहौच् प्रीतौ' (१२८१) ष्णिह् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्निह् । 'षिचीत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्ट्यै०' (२।३।९८) सिच् । वर्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । अनेन द्वयोर्धात्वोः सिप्प आदेशः । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० सिप्पइ ॥२५५॥
ग्रहेर्धेप्पः ॥ ८।४।२५६ ॥ ग्रहे: कर्म-भावे घेप्प इत्यादेशो वा भवति, क्यलुक् च || घेप्पइ । गेण्हिज्जइ ॥ [ग्रहेर्पप्पः ] ग्रहि षष्ठी ङस् । घेप्प प्रथमा सि ।
[घेप्पड़ गेण्हिज्जइ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । वर्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । अनेन ग्रह० → घेप्प आदेशः - क्यलुक् च । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० घेप्पड़ । पक्षे- 'ग्रहो वल-गेण्ह०' (४।२०९) ग्रह० → गेण्ह आदेशः । 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'त्यादीनामाद्य०' (३३१३९) ते० → इ० गेण्हिज्जइ ॥२५६।।
स्पृशश्छिप्पः ॥ ८।४।२५७ ॥ स्पृशतेः कर्म-भावे छिप्पादेशो वा भवति, क्यलुक् च ॥ छिप्पइ । छिविज्जइ । [स्पृशश्छिप्पः ] स्पृश् षष्ठी ङस् । छिप्प प्रथमा सि ।।
[छिप्पइ ] 'स्पृशंत् संस्पर्शे' (१४१२) स्पृश् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । अनेन स्पृश० → छिप्प० इति - क्यस्य च लुक् । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० छिप्पड़ ।
पक्षे- [छिविज्जइ] 'स्पृशंत् संस्पर्श' (१४१२) स्पृश् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । 'स्पृशः फास-फंस-फरिस-छिव-छिहा-5ऽलुङ्खा-ऽऽलिहा:' (४।१८२) स्पृश० → छिव० । 'ईअ-इज्जौ क्यस्य'
१. G. H. I. J. स्पृशेश्छिप्पः ।