________________
५०४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[थो धः] थ् षष्ठी ङस् । ध प्रथमा सि ।
[कधेदि कहेदि] 'कथण वाक्यप्रबन्धे (१८८०) कथ (२) । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इच् । 'दिरिचेचोः' (४।२७३) इच्० → दि० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।११३) कथदि । 'वर्तमानापञ्चमी०' (३।१५८) थ० → थे० । अनेन वा थस्य धः । पक्षे- 'ख-घ-थ-ध-भाम्' (१।१८७) थस्य हः कधेदि कहेदि ।
[णाधो णाहो] नाथ (२) । अनेन वा थस्य धः । पक्षे-'ख-घ-थ-ध-भाम्' (१।१८७) थस्य हः । शेष सुगमम् । णाधो णाहो।
[कधं कहं] कथम् (२) । अनेन वा थस्य धः । पक्षे- 'ख-घ-थ-ध-भाम्' (१।१८७) थस्य हः । शेषं सुगमम् । कधं कहं ।
[राजपधो राजपहो ] राजपथ (२) । अनेन वा थस्य धः । पक्षे- 'ख-घ-थ-ध-भाम्' (१।१८७) थस्य हः । शेषं सुगमम् । राजपधो राजपहो । __ [थामं] स्थामन् । 'क-ग-ट-ड०' (२७७) स्लुक् । 'भवद्भगवतोः' (४।२६५) न० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः थामं ।
[थेओ] स्थित । 'क-ग-ट-ड०' (२७७) स्लुक् । 'युवर्णस्य गुणः' (४।२३७) थि० → थे० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० थेओ ॥२६७।।
____ इह - हचोर्हस्य ॥ ८।४।२६८ ॥ इहशब्दसम्बन्धिनो 'मध्यमस्येत्था-हचौ' (३१४३) इति विहितस्य हचश्च हकारस्य शौरसेन्यां धो वा भवति ॥ इध । होध । परित्तायध । पक्षे- इह । होह । परित्तायह ॥ [इह-हचोर्हस्य ] इह-हच् षष्ठी ओस् । ह षष्ठी ङस् । [इध इह] इह । अनेन वा हस्य धः इध । पक्षे-इह ।
[होध होह] 'भू सत्तायाम् (१) भू । पञ्चमी त । 'मध्यमस्येत्था-हचौ' (३।१४३) त० → हच्० → ह० । 'भुवेर्हो हुव-हवाः' (४/६०) भू० → हो० । अनेन वा हस्य धः होध । पक्षे- होह ।
[परित्तायध परित्तायह] परित्राय-पञ्चमी ध्वम् । 'मध्यमस्येत्था-हचौ' (३.१४३) ध्वम् → हच् → ह० । अनेन वा हस्य धः । 'सर्वत्र ल-व-रामवन्द्रे' (२२७९) लुक् । 'अनादौ०' (२।८९) द्वित्वं- ता० → त्ता० परित्तायध । पक्षे- परित्तायह ॥२६८॥
भुवो भः ॥ ८।४।२६९ ॥ भवतेर्हकारस्य शौरसेन्यां भो वा भवति ॥ भोदि होदि । भुवदि हुवदि । भवदि हवदि ॥ [ भुवो भः ] भू षष्ठी ङस् । भ प्रथमा सि ।
[भोदि होदि] 'भू सत्तायाम् (१) । भू (२) । वर्त० तिव् । 'भुवे:-हुव-हवाः' (४/६०) भू० → हो । अनेन वा हो० → भो० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इच् । 'दिरिचेचोः' (४।२७३) इच् → दि० भोदि होदि ।