________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
४७९
[उव्वेवो] उद्पूर्व० 'ओविजैति भय-चलनयोः' (१४६८) विज् । उद्वेजनमुद्वेजः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । अनेन ज० → व० । 'लोकात्' (१।१०३) उद्विव० । 'क-ग-ट-ड०' (२१७७) द्लुक् । 'अनादौ०' (२।८९) द्वित्वं - वि० → व्वि० । 'युवर्णस्य गुणः' (४।२३७) व्वि० → व्वे० । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१११४) अलुक् उव्वेवो ॥२२७॥ .
खाद-धावोर्लुक् ॥ ८।४।२२८ ॥ अनयोरन्त्यस्य लुग भवति ॥
खाइ । खाअइ । खाहिइ । खाउ । धाइ । धाहिइ । धाउ ॥
बहुलाधिकाराद् वर्तमाना - भविष्यद्विध्यायेकवचने एव भवति तेनेह न भवति - खादन्ति । धावन्ति ॥ क्वचित्र भवति - धावइ पुरओ ॥
[खाद-धावोर्लुक् ] खाद-धाव् षष्ठी ओस् । लुक् प्रथमा सि ।
[खाइ ] 'खादृ भक्षणे' (२९४) खाद् । वर्तः तिव् । अनेन लुक् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० खाइ। __[खाअइ] खाद् । वर्त० तिव् । अनेन द्लुक् । 'स्वरादनतो वा' (४।२४०) अत् । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० खाअइ ।
[खायइ] खाद् । वर्त० तिव् । अनेन द्लुक् । 'स्वरादनतो वा' (४।२४०) अत् । 'अवर्णो यश्रुतिः' (१९८०) अ० → य० । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० खायइ ।
[खाहिड़] खाद् । भविष्यन्ती स्यति । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । 'त्यादीनामाद्य०' (३।१३९) स्यति० → इ० । अनेन लुक् खाहिइ ।
[खाउ] खाद् । तुव्प्रत्यये खाउ ।
[धाइ ] 'धावूग् गति-शुद्धयोः' (९२०) धाव् । वर्तः तिव् । अनेन व्लुक् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० धाइ।
[धाअइ] धाव् । वर्तः तिव् । अनेन व्लुक् । 'स्वरादनतो वा' (४।२४०) अत् । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० धाअइ ।
[धायइ] धाव् । वर्त्तः तिव् । अनेन व्लुक् । 'स्वरादनतो वा' (४।२४०) अत् । 'अवर्णो यश्रुतिः' (१२१८०) अ० → य० । 'त्यादीनामाद्य०' (३३१३९) तिव्० → इ० धायइ ।
[धाहिइ] धाव । भविष्यन्ती स्यति । 'भविष्यति हिरादिः' (३।१६६) हि आगमः । 'त्यादीनामाद्य०' (३।१३९) स्यति० → इ० । अनेन व्लुक् धाहिइ । १. धावइ पुरओ पासेसु भमइ दिट्ठीपहम्मि संठाइ । णवलइ[आ]करस्स तुह हलिअउत्त ! दे पहरसु वराई ॥ [गा० स० - ५/५६] धावति पुरतः पार्श्वयोर्धमति दृष्टिपथे संतिष्ठते । नवलतिकाकरस्य तव हलिकपुत्र ! हे प्रहर वराकीम् ॥ २. पाठां० - नवलयपहारभीया सा देउरस्स ववलगइ [गा०-को० -५।५७] नवलताप्रहारभीता सा देवरस्य व्यवलगति । ३. A. खायइ उदाहरणम् । ४. A. धाअइ उदाहरणम् । ५. A. धायइ उदाहरणम् ।