________________
४७८
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
'लुक्' (१।१०) रस्य अलोपः । 'लोकात्' (१।१।३) स्विदिरी । 'सर्वत्र ल-व०' (२७९) व्लुक् । अनेन द० → ज्ज०। 'लोकात्' (१२२३) सिज्जिरी । तृतीया टा । 'टा-ङस्-डेरदादिदेवा तु ङसेः' (३।२९) टा० → ए० सिज्जिरीए । सर्वाङ्गस्वेदत्या इत्यर्थः ।।
[संपज्जइ] सम्पूर्व० 'पदिंच गतौ' (१२५७) पद् । वर्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन द० → ज्ज० । 'लोकात्' (१।१।३) संपज्जते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० संपज्जइ ।
[खिज्जइ] 'खिदिच् दैन्ये' (१२५९) खिद् । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । अनेन द० → ज्ज० । 'लोकात्' (१।१।३) खिज्जते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० खिज्जइ ॥२२४॥
व्रज-नृत-मदां च्चः ॥ ८।४।२२५ ॥ एषामन्त्यस्य द्विरुक्तश्चो भवति ॥ वच्चइ । नच्चइ । मच्चइ । [व्रज-नृत-मदां च्चः] व्रज-नृत-मद् षष्ठी आम् । च्च प्रथमा सि
[वच्चइ] 'व्रज गतौ' (१३७) व्रज् । वर्त्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन ज० → च्च० । 'लोकात्' (१।१।३) वच्चति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० वच्चइ ।
[नच्चड़ ] 'नृतैच् नर्तने' (११५२) नृत् । वर्त्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन त० → च्च० । 'लोकात् (१।१३) नृच्चति । 'ऋतोऽत्' (१।१२६) नृ० → न० । 'त्यादीनामाद्य०' (३।१३९) तिव० → इ० नच्चइ ।
[मच्चइ ] 'मदैच् हर्षे' (१२३६) मद् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (३।१३९) अत् । अनेन द० → च्च० । 'लोकात्' (१।१३) मच्चति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० मच्चइ ॥२२५॥
रुद-नमोर्वः ॥ ८।४।२२६ ॥ अनयोरन्त्यस्य वो भवति ॥ रुवइ । रोवइ । नवइ ।। [रुद-नमोर्वः ] रुद-नम् षष्ठी ओस् । व प्रथमा सि । - [रुवइ रोवइ] 'रुदृक् अश्रुविमोचने' (१०८७) रुद् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन द० → व० । 'लोकात्' (१।१।३) रुवति । एकत्र 'स्वराणां स्वराः' (४।२३८) रु० → रो० रुवइ । रोवइ ।
[नवइ] 'णमं प्रहत्वे' (३८८) णम् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नम् । वर्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन म० → व० । 'लोकात्' (१।१३) नवति नवइ ॥२२६॥
उद्विजः ॥८।४।२२७ ॥ उद्विजतेरन्त्यस्य वो भवति ॥ उव्विवइ । उव्वेवो ॥
[उद्विजः] उद्विज् षष्ठी ङस् ।
[व्विवइ] उद्पूर्व० 'ओविजैति भय-चलनयोः' (१४६८) विज् । वर्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन ज० → व० । 'लोकात्' (१।१।३) उद्विवते । 'क-ग-ट०' (२७७) द्लुक् । 'अनादौ०' (२१८९) द्वित्वं -वि० → वि० । 'त्यादीनामाद्य०' (३३१३९) ते० → इ० उव्विवइ । १. M. सर्वाङ्गस्वेदनशीलायाः ।