________________
४८०
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[धाउ] धाव् । तुव्प्रत्यये धाउ।
[खादन्ति] खाद् । वर्त० अन्ति । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१२११३) खाद-अन्ति । 'बहुष्वाद्यस्य न्ति-न्ते-इरे' (३३१४२) अन्ति० → न्ति० खादन्ति ।
[धावन्ति ] धाव् । वर्त्तः अन्ति । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) धाव-अन्ति । 'बहुष्वाद्यस्य०' (३।१४२) अन्ति० → न्ति० धावन्ति ।
__ [धावइ पुरओ ] धाव् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) धावति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० धावइ ।
पुरतः । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'अतो डो विसर्गस्य' (१।३७) विसर्गस्य डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् पुरओ ॥२२८॥
सृजो रः ॥ ८।४।२२९ ॥ सृजो धातोरन्त्यस्य रो भवति ॥ निसिरइ । वोसिरइ । वोसिरामि ॥ [सृजो रः] सृज् षष्ठी ङस् । र प्रथमा सि ।
[निसिरह] 'सृजत् विसर्गे' (१३४९) सृज, निपूर्व० । वर्त० तिव् । 'इत्कृपादौ' (१।१२८) सृ० → सि० । अनेन ज० → र० । 'व्यञ्जना०' (४।२३९) अत् । ‘लोकात्' (१।१।३) निसिरति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० निसिरइ.।
[वोसिरइ ] व्युत्पूर्व० सृज्० । सिरइ पूर्ववत् । 'गोणादयः' (२।१७४) व्युदो वो इत्यादेशः-वोसिरइ ।
[वोसिरामि ] व्युत्पूर्व० सृज्० । वर्त० मिव् । 'तृतीयस्य मिः' (३६१४१) मिव्० → मि० । अनेन ज० → र० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) व्युत्सृरमि । 'मौ वा' (३।१५४) दीर्घः - र० → रा० । 'इत्कृपादौ' (१।१२८) स० → सि० । 'गोणादयः' (२।१७४) व्युदो वो इत्यादेशः - वोसिरामि ॥२२९॥
शकादीनां द्वित्वम् ॥ ८।४।२३० ॥ शकादीनामन्त्यस्य द्वित्वं भवति ॥
शक्-सक्कइ । जिम्-जिम्मइ । लग्-लग्गइ । मग्-मग्गइ । कुप्-कुप्पइ । नश्-नस्सइ । अट्-परिअट्टइ । लुट्पलोट्टइ । तुट्-तुट्टइ । नट-नट्टइ । सिव्-सिव्वइ इत्यादि ।
[शकादीनां द्वित्वम् ] शकादि षष्ठी आम् । द्वित्व प्रथमा सि ।
[सक्कड़ ] 'शक्लृट् शक्तौ' (१३००) शक् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । अनेन धातोरन्त्यस्य द्वित्वम् । 'लोकात्' (१।१।३) शक्कति । 'श-षोः सः' (१।२६०) श० → स० । 'त्यादीनामाद्य०' (३१३९) तिव्० → इ० सक्कड़ ।
[जिम्मइ ] 'जिमू अदने' (३८४) जिम् । वर्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन धातोरन्त्यस्य द्वित्वम् । 'लोकात्' (१।१३) जिम्मति । 'त्यादीनामाद्य०' (३।१३९) तिव० → इ० जिम्मइ ।
[लग्गइ ] 'लगे सङ्गे (१०२४) लग् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन धातोरन्त्यस्य द्वित्वम् । 'लोकात्' (१।१।३) लग्गति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० लग्गइ ।