________________
अष्टसाध्यायस्य चतुर्थः पादः ॥
४७३
वचो वोत् ॥ ८।४।२११ ॥ वक्तेर्वोत् इत्यादेशो भवति, क्त्वा-तुम्-तव्येषु ॥ वोत्तूण । वोत्तुं । वोत्तव्वं ॥ [वचो वोत् ] वच् षष्ठी ङस् । वोत् प्रथमा सि ।
[वोत्तूण वोत्तुं वोत्तव्वं ] 'वचं भाषणे' (१०९६) वच् । क्त्वाप्र० । अनेन वच्० → वोत् । 'क्त्वस्तुमत्तूणतुआणाः' (२।१४६) क्त्वा० → तूण० वोत्तूण । तुमि परे-वोत्तुं । तव्यप्रत्यये वोत्तव्वं । 'अधो म-न-याम्' (२७८) यूलुक्। 'अनादौ०' (२।८९) द्वित्वं-व्व० वोत्तव्वं ॥२१॥
रुद-भुज-मुचां तोऽन्त्यस्य ॥ ८।४।२१२ ॥ एषामन्त्यस्य क्त्वा-तुम्-तव्येषु तो भवति ॥ रोत्तूण । रोत्तुं । रोत्तव्वं । भोत्तूण । भोत्तुं । भोत्तव्वं । मोत्तूण । मोत्तुं । मोत्तव्वं ॥ [रुद-भुज-मुचां तोऽन्त्यस्य ] रुद-भुज-मुच् षष्ठी आम् । त प्रथमा सि । अन्त्य षष्ठी ङस् ।
[रोत्तूण रोत्तुं रोत्तव्वं ] 'रुदक् अश्रुविमोचने' (१०८७) रुद् (३) । क्त्वा-तुम्-तव्यप्र० । प्रथमे 'क्त्वस्तुमत्तूणतुआणाः' (२।१४६) क्त्वा० → तूण० । अनेन द० → त० । 'युवर्णस्य गुणः' (४।२३७) रु० → रो० । 'अधो म-नयाम्' (२।७८) य्लुक् । 'अनादौ०' (२।८९) द्वित्वं-व्व० रोत्तूण रोत्तुं रोत्तव्वं ।
[भोत्तूण भोत्तुं भोत्तव्वं ] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् (३) । क्त्वा-तुम्-तव्यप्र० । प्रथमे 'क्त्वस्तुमत्तूण-तुआणाः' (२।१४६) क्त्वा० → तूण० । अनेन ज० → त० । 'युवर्णस्य गुणः' (४।२३७) भु० → भो० । 'अधो म-न-याम्' (२।७८) यलुक् । 'अनादौ०' (२।८९) द्वित्वं-व्व० भोत्तूण भोत्तुं भोत्तव्वं ।
[मोत्तूण मोत्तुं मोत्तव्वं ] 'मुच्लुंती मोक्षणे' (१३२०) मुच् (३) । क्त्वा-तुम्-तव्यप्र० । प्रथमे 'क्त्वस्तुमत्तूण०' (२।१४६) क्त्वा० → तूण० । अनेन च० → त० । 'युवर्णस्य गुणः' (४।२३७) मु० → मो० । 'अधो म-न-याम्' (२।७८) य्लुक् । 'अनादौ०' (२१८९) द्वित्वं-व्व० मोत्तूण मोत्तुं मोत्तव्वं ॥२१२॥
___दृशस्तेन छः ॥ ८।४।२१३ ॥ दृशोऽन्त्यस्य तकारेण सह द्विरुक्तष्ठकारो भवति ॥ दद्रूण । दुटुं । दट्ठव्वं ॥ [ दृशस्तेन छः ] दृश् षष्ठी ङस् । तद् तृतीया टा । ट्ठ प्रथमा सि ।
[ दलूण दटुं दट्ठव्वं ] 'दृशं प्रेक्षणे' (४९५) दृश् (३) । क्त्वा-तुम्-तव्यप्र० । प्रथमे ‘क्त्वस्तुमत्तूण-तुआणा:' (२।१४६) क्त्वा० → तूण० । अनेन शकार-तकारयोः टु० दट्ठण दटुं दट्ठव्वं ॥२१३||
___ आः कृगो भूत-भविष्यतोश्च ॥ ८।४।२१४ ॥ कृगोऽन्त्यस्य आ इत्यादेशो भवति, भूत-भविष्यत्कालयोश्चकारात् क्त्वा-तुम्-तव्येषु च ॥ काहीअ-अकार्षीत् अकरोत् चकार वा ॥ काहिइ-करिष्यति कर्ता वा । क्त्वा-काऊण । तुम्-काउं । तव्य-कायव्वं ॥ [आः कृगो भूत-भविष्यतोश्च] आ प्रथमा सि । कृग् षष्ठी ङस् । भूत-भविष्यत् सप्तमी ओस् । च प्रथमा सि । पूर्वसूत्रे यदन्त्यग्रहणं तेनेहापि ज्ञेयम् ॥