________________
४७२
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[मुहेर्गुम्म-गुम्मडौ] मुहि षष्ठी ङस् । गुम्म-गुम्मड प्रथमा औ ।
पक्षे-[मुज्झइ] 'मुहौच वैचित्त्ये' (१२३८) मुह । वर्त० तिव् । 'व्यञ्जनाद०' (४।२३९) अत् । 'लोकात्' (१२१३) मुहति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । 'युध-बुध-गृध-क्रुध-सिध-मुहां ज्झः' (४।२१७) ज्झ० मुज्झइ । मोहं प्राप्नोतीत्यर्थः ॥२०७॥
दहेरहिऊला-ऽऽलुखौ ॥ ८।४।२०८ ॥ दहेरेतावादेशौ वा भवतः ॥ अहिऊलइ । आलुङ्खइ । डहइ ॥ [ दहेरहिऊला-ऽऽलुङौ ] दहि षष्ठी ङस् । अहिऊल - आलुङ प्रथमा औ ।
पक्षे-[डहइ ] 'दहं भस्मीकरणे' (५५२) दह । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) दहति । 'दंश-दहोः' (१२२१८) द० → ड० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० डहइ । दहतीत्यर्थः ॥२०८।।
ग्रहो वल-गेण्ह-हर-पङ्ग-निरुवारा-ऽहिपच्चुआः ॥ ८।४।२०९ ॥ ग्रहेरेते षडादेशा भवन्ति ॥ वलइ । गेण्हइ । हरइ । पङ्गइ । निरुवारइ । अहिपच्चुअइ ।
[ग्रहो वल-गेह-हर-पङ्ग-निरुवारा-ऽहिपच्चुआः] ग्रह षष्ठी ङस् । वल-गेह-हर-पङ्ग-निरुवार-अहिपच्चुअ प्रथमा जस् ।
[वलइ-गेण्हइ-हरइ-पङ्गइ-निरुवारइ-अहिपच्चुअइ] 'ग्रहीश् उपादाने' (१५१७) ग्रह । वर्त० तिव् । अनेन षडादेशाः । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । गृह्णातीत्यर्थः ॥२०९।।
क्त्वा-तुम्-तव्येषु घेत् ॥ ८।४।२१० ॥ ग्रहः क्त्वा-तुम्-तव्येषु घेत् इत्यादेशो भवति ॥ क्त्वा-घेत्तूण । घेत्तुआण । क्वचिन्न भवति-गेण्हिअ । तुम्-घेत्तुं । तव्य-घेत्तव्वं ॥ [क्त्वा-तुम्-तव्येषु घेत्] क्त्वा-तुम्-तव्य सप्तमी सुप् । घेत् प्रथमा सि ।
[घेत्तुं घेत्तूण घेत्तुआण] 'ग्रहीश् उपादाने' (१५१७) ग्रह (३) । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'क्त्वस्तुमत्तूणतुआणाः' (२।१४६) क्त्वा० → तुम्-तूण-तुआण० । अनेन ग्रह० → घेत् आदेशः - घेत्तुं घेत्तूण घेत्तुआण ।
क्वचिद् घेदादेशो न भवति -
[गेण्हिअ] ग्रह् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'ग्रहो वल-गेह-हर०' (४।२०९) ग्रह → गेण्ह० । 'क्त्वस्तुम०' (२।१४६) क्त्वा० → अत्० । 'व्यञ्जना०' (४।२३९) अत् । ‘एच्च क्त्वा०' (३।१५७) इ० । 'लुक्' (१।१०) अलुक् गेण्हिअ।
[घेत्तुं] ग्रह । “क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । अनेन ग्रह० → घेत्० । 'लोकात्' (१।१।३) घेत्तुम् घेत्तुं ।
[घेत्तव्वं ] ग्रह । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । अनेन ग्रहः → घेत् । 'लोकात्' (१॥१॥३) घेत्तव्य० । 'अधो म-न-याम्' (२१७८) यलुक् । 'अनादौ०' (२१८९) द्वित्वं-व्व० घेत्तव्वं ॥२१०॥