________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
४७१
ऊसलइ । ऊसुम्भइ । णिल्लसइ । पुलआअइ । गुञ्जोल्लइ । हुस्वत्वे तु - गुञ्जुल्लइ । आरोअइ । उल्लसइ ।।
[ उल्लसेरूसलोसुम्भ-णिल्लस-पुलआअ-गुञ्जोल्ला-ऽऽरोआः] उल्लसि षष्ठी ङस् । ऊसल-ऊसुम्भ-णिल्लसपुलआअ-गुञ्जोल्ल-आरोअ प्रथमा जस् ।
पक्षे- [ उल्लसइ ] उत्पूर्व० 'लस श्लेषण-क्रीडनयोः' (५४३) लस् । वर्त्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) उल्लसति । 'त्यादीनामाद्य०' (३१३९) तिव० → इ० । 'क-ग-ट-ड०' (२७७) त्लुक् । 'अनादौ०' (२१८९) द्वित्वं-ल्ल० उल्लसइ ॥२०२॥
भासेर्भिसः ॥ ८।४।२०३ ॥ भासेभिस इत्यादेशो वा भवति ॥ भिसइ । भासइ ॥ [भासेभिसः] भासि षष्ठी ङस् । भिस प्रथमा सि । ...
पक्षे- [भासइ] 'भासि दीप्तौ' (८४६) भास् । वर्त्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) भासते। 'त्यादीनामाद्य०' (३।१३९) ते० → इ० भासइ ॥२०३॥
ग्रसेधिसः ॥८४२०४॥ ग्रसेघिस इत्यादेशो वा भवति ॥ घिसइ । गसइ ॥ [ग्रसेधिसः ] ग्रसि षष्ठी ङस् । घिस प्रथमा सि ।
पक्षे- [गसइ ] 'ग्रसूङ् अदने' (८५४) ग्रस् । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) ग्रसते। 'सर्वत्र०' (२७९) लुक् । 'त्यादीनामा०' (३।१३९) ते० → इ० गसइ । ग्रसतीत्यर्थः ॥२०४॥
अवाद् गाहेर्वाहः ॥ ८।४।२०५ ॥ अवात्परस्य गाहेर्वाह इत्यादेशो वा भवति ॥ ओवाहइ । ओगाहइ । [अवाद् गाहेर्वाहः ] अव पञ्चमी ङसि । गाहि षष्ठी ङस् । वाह प्रथमा सि ।
पक्षे- [ओगाहइ] अवपूर्व० 'गाहौङ् विलोडने' (८७१) गाह । वर्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) अवगाहते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० । 'अवापोते' (१।१७२) अवस्य ओ० ओगाइ। अवगाहते इत्यर्थः ॥२०५॥
आरुहेश्चड-वलग्गौ ॥ ८।४।२०६ ॥ आरुहेरेतावादेशौ वा भवतः ॥ चडइ । वलग्गइ । आरुहइ ॥ [ आरुहेश्चड-वलग्गौ] आरुहि षष्ठी ङस् । चड-वलग्ग प्रथमा औ।
पक्षे- [आरुहइ] आयूर्व० 'रुहं जन्मनि' (९८८) रुह । वर्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) आरुहति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । बाहुलकात् 'युवर्णस्य गुणः' (४।२३७) इत्यनेन न गुणः । आरुहइ ॥२०६॥
मुहेर्गुम्म-गुम्मडौ ॥ ८।४।२०७ ॥ मुहेरेतावादेशौ वा भवतः ॥ गुम्मइ । गुम्मडइ । मुज्झइ ॥