________________
४७४
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[काहीअ] 'डुकंग करणे' (८८८) कृ । अद्यतनी दि-ह्यस्तनी दिव् वा अथवा परोक्षा णव् । 'सी-ही-हीअ भूतार्थस्य' (३।१६२) दि-दिव्-णवस्थाने ही० । अनेन कृ० → का० काहीअ। ..
[काहिइ] क। भवि० स्यति । 'भविष्यति हिरादिः' (३।१६६) "हि"आगमः । 'त्यादीनामाद्य०' (३।१३९) स्यति० → इ० । अनेन कृ० → का० काहिइ ।
[काऊण काउं कायळ ] कृ । क्वा-तुम्-तव्यप्र० । 'क्त्वस्तुमत्तूण-तुआणा:' (२२१४६) क्त्वा० → तूण० । द्वितीये तुम्प्र० । तृतीये तव्यप्र० । 'क-ग-च-ज०' (१।१७७) त्लुक् । अनेन कृ० → का० । तृतीये 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० काऊण काउं कायव्वं ॥२१४॥
___ गमिष्यमासां छः ॥ ८।४।२१५ ॥
एषामन्त्यस्य छो भवति ॥ गच्छइ । इच्छइ । जच्छइ । अच्छइ । [गमिष्यमासां छ: ] गम्-इष्-यम्-आस् षष्ठी आम् । छ प्रथमा सि ।
[गच्छइ ] 'गम्लं गतौ' (३९६) गम् । वर्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) गमति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । अनेन म० → छ । 'अनादौ०' (२१८९) द्वित्वं-छछ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः गच्छड्।।
[इच्छइ ] 'इषत् इच्छायाम्' (१४१९) इष् । वर्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) इषति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । अनेन ष० → छ । 'अनादौ०' (२१८९) द्वित्वं-छ्छ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः इच्छइ ।
[जच्छइ ] 'यमूं उपरमे' (३८६) यम् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) यमति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । अनेन म० → छ । 'अनादौ०' (२।८९) द्वित्वं-छ्छ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'आदेर्यो जः' (१।२४५) य० → ज० जच्छइ । निवर्तते इत्यर्थः ।
[अच्छइ ] 'आसिक् उपवेशने' (१११९) आस् । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) आसते । अनेन स० → छ० । 'अनादौ०' (२१८९) द्वित्वं-छ्छ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वछस्य चः । 'हुस्व: संयोगे' (१।८४) आ० → अ० । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० अच्छइ । तिष्ठतीत्यर्थः ॥२१५।।
छिदि-भिदो न्दः ॥ ८।४।२१६ ॥ अनयोरन्त्यस्य नकाराक्रान्तो दकारो भवति ॥ छिन्दइ । भिन्दइ ॥ [छिदि-भिदो न्दः ] छिदि-भिद् षष्ठी ङस् । न्द प्रथमा सि ।
[छिन्दइ ] 'छिदंपी द्वैधीकरणे' (१४७८) छिद् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन द० → न्द० । 'लोकात्' (१।१।३) छिन्दति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० छिन्दइ ।
[भिन्दइ] "भिदंपी विदारणे' (१४७७) भिद् । वर्त्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । अनेन द० → न्द० । 'लोकात्' (१।१।३) भिन्दति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० भिन्दइ ॥२१६॥
१. E.G. छिद० ।