________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
४६७
पक्षे- [पविसइ] प्रपूर्व० 'विशंत् प्रवेशने' (१४१५) विश् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) प्रविशति । 'सर्वत्र ल-व०' (२७९) लुक् । 'श-षोः सः' (१।२६०) श० → स० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० पविसइ ॥१८३।।
प्रान्मृश-मुषोईसः ॥ ८।४।१८४ ॥ प्रात्परयोम॑शति-मुष्णात्यो स इत्यादेशो भवति ॥ पम्हुसइ । प्रमृशति-प्रमुष्णाति वा ॥ [ प्रान्मृश-मुषोईसः ] प्र पञ्चमी ङसि । मृश-मुष् षष्ठी ओस् । म्हुस प्रथमा सि ।
[ पम्हुसइ ] 'मृशंत् आमर्शने' (१४१६) मृश्, प्रपूर्व० । 'मुषश् स्तेये' (१५६३) मुष्, प्रपूर्व० । वर्त० तिव् । अनेन द्वयोः म्हुस आदेशः । 'सर्वत्र ल-व-रामवन्द्रे' (२।७९) लुक् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० पम्हुसइ ।।१८४॥
पिषेणिवह-णिरिणास-णिरिणज्ज-रोञ्च-चड्डाः ॥ ८।४।१८५ ॥ पिरते पञ्चादेशा भवन्ति वा ॥
णिवहइ । णिरिणासइ । णिरिणज्जइ । रोञ्चइ । चड्डइ । पक्षे - पीसइ ।
[पिषेर्णिवह-णिरिणास-णिरिणज्ज-रोञ्च-चड्डाः ] पिषि षष्ठी ङस् । णिवह-णिरिणास-णिरिणज्ज-रोञ्च-चड्ड प्रथमा जस् ।
पक्षे- [पीसइ] 'पिष्लूप् संचूर्णने' (१४९३) पिष् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) पिषति । 'रुषादीनां दीर्घः' (४।२३६) पि० → पी० । 'श-षोः सः' (१।२६०) ष० → स० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० पीसइ ॥१८५॥
भषे(क्कः ॥ ८।४।१८६ ॥ भषेर्भुक्क इत्यादेशो वा भवति ॥ भुक्कइ । भसइ । [भषे(क्कः] भषि षष्ठी ङस् । भुक्क प्रथमा सि ।
पक्षे- [भसइ] 'भष भर्त्सने' (५२१) भष् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।११३) भषति । 'श-षोः सः' (१।२६०) १० → स० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० भसइ ॥१८६।।
कृषेः कड्ढ-साअड्ढा-ऽञ्चा-ऽणच्छा-ऽयञ्छा-ऽऽइञ्छाः ॥ ८।४।१८७ ॥ कृषेरेते षडादेशा वा भवन्ति । कड्ढइ । साअड्ढइ । अञ्चइ । अणच्छइ । अयञ्छइ । आइञ्छइ । पक्षे- करिसइ ।
[कृषः कड्ढ-साअड्ढा-ऽञ्चा-ऽणच्छा-ऽयञ्छा-ऽऽइञ्छाः ] कृषि षष्ठी ङस् । कड्ढ-साअड्ढा-ऽञ्चा-ऽणच्छाऽयञ्छ-ऽऽइञ्छ प्रथमा जस् ।
पक्षे- [करिसइ] 'कृषीत् विलेखने' (१३१९) कृष् । वर्त्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) कृषति । 'वृषादीनामरिः' (४।२३५) कृ० → करि० । 'श-षोः सः' (१।२६०) ष० → स० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० करिसइ । कर्षतीत्यर्थः ॥१८७।।