________________
४६८
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
असावक्खोडः ॥ ८।४।१८८ ॥ 'असिविषयस्य कृषेरक्खोड इत्यादेशो भवति ॥ अक्खोडेइ । असि कोशात् कर्षतीत्यर्थः ।। [असावक्खोडः ] असावक्खोड प्रथमा सि ।
[अक्खोडेइ] 'कृषीत् विलेखने' (१३१९) कृष् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) कृषति । अनेन कृष० → अक्खोड० । 'वर्तमाना-पञ्चमी-शतृषु वा' (३।१५८) एत्त्वं-ड० → डे० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० अक्खोडेइ । असि कोशात् कर्षतीत्यर्थः । ॥१८८।।
गवेषेढुण्ढुल्ल-ढण्ढोल-गमेस-घत्ताः ॥ ८।४।१८९ ॥ गवेषेरेते चत्वार आदेशा वा भवन्ति । ढुण्ढुल्लइ । ढण्ढोलइ । गमेसइ । घत्तइ । गवेसइ ।। [गवेषेढुण्ढुल्ल-ढण्ढोल-गमेस-घत्ताः] गवेषि षष्ठी ङस् । ढुण्ढुल्ल-ढण्ढोल-गमेस-घत्त प्रथमा जस् ।
पक्षे- [गवेसइ ] 'गवेषण् मार्गणे' (१९१९) गवेष् । वर्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१११०३) गवेषति । 'श-षोः सः' (१।२६०) ष० → स० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० गवेसइ । गवेषयतीत्यर्थः ॥१८९॥
श्लिषेः सामग्गा-ऽवयास-परिअत्ताः ॥ ८।४।१९० ॥ श्लिष्यतेरेते त्रय आदेशा वा भवन्ति ॥ सामग्गइ । अवयासइ । परिअत्तइ । सिलेसइ । [श्लिषेः सामग्गा-ऽवयास-परिअत्ताः] श्लिषि षष्ठी ङस् । सामग्गा-ऽवयास-परिअत्त प्रथमा जस् ।
[सिलेसइ] 'श्लिषंच आलिङ्गने' (१२१०) श्लिष् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) श्लिषति । 'लात्' (२।१०६) लात् पूर्व इ० । 'लोकात्' (१।१।३) शिलिषति । 'युवर्णस्य गुणः' (४/२३७) लि० → ले० । 'श-षोः सः' (११२६०) शि० → सि० - ष० → स० । 'त्यादीनामाद्य०'(३।१३९) तिव्० → इ० सिलेसइ । श्लिष्यतीत्यर्थः ॥१९०॥
प्रक्षेश्चोप्पडः ॥ ८।४।१९१ ॥ म्रक्षेश्चोप्पड इत्यादेशो वा भवति ॥ चोप्पडइ । मक्खइ ॥ [म्रक्षेश्चोप्पडः ] म्रक्षि षष्ठी ङस् । चोप्पड प्रथमा सि ।
पक्षे- [मक्खइ] 'म्रक्षण म्लेच्छने' (१७१६) म्रक्ष् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१३) म्रक्षति । 'क्षः खः क्वचित्तु छ-झौ' (२॥३) क्ष० → ख० । 'अनादौ०' (२१८९) द्वित्वं-ख्ख० । 'द्वितीयतुर्ययो०' (२९०) पूर्वखस्य कः । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० मक्खइ । म्रक्षतीत्यर्थः ॥१९॥
काङ्क्षराहा-ऽहिलङ्घा-ऽहिलङ्ख-वच्च-वम्फ-मह-सिह-विलुम्पाः ॥ ८।४।१९२ ॥ काङ्क्षतेरेतेऽष्टादेशा वा भवन्ति ॥
१. E. असिविषये । २. पा० म०- श्लिष० → परिअत्त० - परिअन्त० ।