________________
४६६
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
संदिशेरप्पाहः ॥ ८।४।१८० ॥ संदिशतेरप्पाह इत्यादेशो वा भवति || अप्पाहइ । संदिसइ । [संदिशेरप्पाहः ] संदिशि षष्ठी ङस् । अप्पाह प्रथमा सि ।
पक्षे- [संदिसइ ] 'दिशीत् अतिसर्जने' (१३१८) दिश्, सम्पूर्व० । वर्त्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१३) संदिशति । 'श-षोः सः' (११२६०) श० → स० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० संदिसइ ॥१८०॥
दृशो निअच्छ-पेच्छा-ऽवयच्छा-ऽवयज्झ-वज्ज-सव्वव-देक्खौअक्खा-ऽवक्खा-ऽवअक्ख-पुलोअ-पुलअ
निआ-ऽवआस-पासाः ॥ ८।४।१८१ ॥
निअच्छइ । पेच्छइ । अवयच्छइ । अवयज्झइ । वज्जइ । सव्ववइ । देक्खइ । ओअक्खइ । अवक्खइ । अवअक्खइ। पुलोएइ । पुलएइ । निअइ । अवआसइ । पासइ ।
निज्झाअइ इति तु निध्यायतेः स्वरादत्यन्ते भविष्यति ।
[दृशो निअच्छ-पेच्छा-ऽवयच्छा-ऽवयज्झ-वज्ज-सव्वव-देक्खौअक्खा-ऽवक्खा-ऽवअक्ख-पुलोअ-पुलअनिआ-ऽवआस-पासाः] दृश् षष्ठी ङस् । निअच्छ-पेच्छा-ऽवयच्छा-ऽवयज्झ-वज्ज-सव्वव-देक्खौअक्खा-ऽवक्खाऽवअक्ख-पुलोअ-पुलअ-निआ-ऽवआस-पास प्रथमा जस् ।
[निअच्छइ-पेच्छइ-अवयच्छइ-अवयज्झइ-वज्जइ-सव्ववइ-देक्खइ-ओअक्खइ-अवक्खइ-अवअक्खइपुलोएइ-पुलएइ-निअइ-अवआसइ-पासइ] 'दृशं प्रेक्षणे' (४९५) दृश् । अनेन सर्वे आदेशाः । पश्यतीत्यर्थः ।
[निज्झाअइ] निपूर्व० 'ध्य चिन्तायाम्' (३०) ध्यै । 'स्वराणां०' (४।२३८) ध्यै० → ध्या० । 'ध्या-गोझा-गौ' (४६) ध्या० → झा० । 'स्वरादनतो वा' (४।२४०) अत् । 'अनादौ०' (२२८९) झस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वझस्य ज० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० निज्झाअइ ॥१८॥
स्पृशः फास-फंस-फरिस-छिव-छिहा-ऽऽलुखा-ऽऽलिहाः ॥ ८।४।१८२ ॥ स्पृशतेरेते सप्त आदेशा भवन्ति ॥ फासइ । फंसइ । फरिसइ । छिवइ । छिहइ । आलुङ्खइ । आलिहइ ॥
[स्पृशः फास-फंस-फरिस-छिव-छिहा-ऽऽलुङ्खा-ऽऽलिहाः ] स्पृश् षष्ठी ङस् । फास-फंस-फरिस-छिव-छिहाऽऽलुङ्ख-ऽऽलिह प्रथमा जस् ।
[फासइ-फंसइ-फरिसइ-छिवइ-छिहइ-आलुखइ-आलिहइ ] 'स्पृशंत् संस्पर्श' (१४१२) स्पृश् । अनेन सर्वे आदेशाः । स्पृशतीत्यर्थः ॥१८२॥
प्रविशे रिअः ॥ ८।४।१८३ ॥ प्रविशे रिअ इत्यादेशो वा भवति ॥ रिअइ । पविसइ । [प्रविशे रिअः ] प्रविशि षष्ठी ङस् । रिअ प्रथमा सि ।