________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
[विगलेस्थिप्प-णिमुहौ ] विगलि षष्ठी ङस् । थिप्प-णिगृह प्रथमा औ।
पक्षे- [विगलइ ] विपूर्व० 'गल अदने' (४५२) गल् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) विगलति । 'त्यादीनामा०' (३१३९) तिव्० → इ० विगलइ । गलतीत्यर्थः ॥१७५॥
दलि-वल्योर्विसट्ट-वम्फौ ॥ ८।४।१७६ ॥
दलेर्वलेश्च यथासंख्यं विसट्ट-वम्फ इत्यादेशौ वा भवतः ॥ विसट्टइ । वम्फइ । पक्षे- दलइ । वलइ ॥ [ दलि-वल्योर्विसट्ट-वम्फौ ] दलि-वलि षष्ठी ओस् । विसट्ट-वम्फ प्रथमा औ ।
पक्षे- [ दलइ ] 'दल विशरणे' (४१३) दल् । वर्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) दलति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० दलइ ।
[वलइ] 'वलि संवरणे' (८०७) वल् । वर्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) वलते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० वलइ ॥१७६॥
भ्रंशेः फिड-फिट्ट-फुड-फुट्ट-चुक्क-भुल्लाः ॥ ८।४।१७७ ॥ भ्रंशेरेते षडादेशा वा भवन्ति ॥ फिडइ । फिट्टइ । फुडइ । फुट्टइ । चुक्कइ । भुल्लइ । पक्षे-भंसइ ॥ [भ्रंशेः फिड-फिट्ट-फुड-फुट्ट-चुक्क-भुल्ला:] भ्रंशि षष्ठी ङस् । फिड-फिट्ट-फुड-फुट्ट-चुक्क-भुल्ल प्रथमा जस् ।
पक्षे- [भंसइ] 'भ्रंशूङ् अवस्रंसने' (९५२) भ्रंश् । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) भ्रंशते । 'सर्वत्र०' (२६७९) लुक् । 'त्यादी०' (३।१३९) ते० → इ० भंसइ ॥१७७॥
नशेणिरणास-णिवहा-ऽवसेह-पडिसा-सेहा-ऽवहराः ॥ ८।४।१७८ ॥ नशेरेते षडादेशा वा भवन्ति ॥ णिरणासइ । णिवहइ । अवसेहइ । पडिसाइ । सेहइ । अवहरइ । पक्षे- नस्सइ ॥
[नशेणिरणास-णिवहा-ऽवसेह-पडिसा-सेहा-ऽवहराः] नशि षष्ठी ङस् । णिरणास-णिवहा-ऽवसेह-पडिसासेहा-ऽवहर प्रथमा जस् । __ पक्षे- [ नस्सइ ] 'नशौच अदर्शने' (१२०२) नश् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) नशति । 'शकादीनां द्वित्वम्' (४।२३०) श्श० । 'श-षोः सः' (११२६०) स्स० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० नस्सइ ॥१७८॥
अवात्काशो वासः ॥ ८।४।१७९ ॥ अवात् परस्य काशो वास इत्यादेशो भवति ॥ ओवासइ ॥ [अवात् काशो वासः] अव पञ्चमी ङसि । काश् षष्ठी ङस् । वास प्रथमा सि ।
[ओवासइ ] अवपूर्व० 'काशृङ् दीप्तौ' (८३०) काश् । वर्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) अवकाशते । अनेन काश० → वास० इति । 'अवापोते' (१।१७२) अवस्य ओ० ओवासइ । अवकाशं ददातीत्यर्थः ॥१७९॥