________________
४६४
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
त्वरस्तुवर-जअडौ ॥ ८।४।१७० ॥ त्वरतेरेतावादेशौ भवतः ॥ तुवरइ । जअडइ । तुवरन्तो । जअडन्तो ।। [त्वरस्तुवर-जअडौ] त्वर् षष्ठी ङस् । तुवर-जअड प्रथमा औ।
[ तुवरन्तो जअडन्तो] 'जित्वरिष् सम्भ्रमे' (१०१०) त्वर् । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०, आनश्प्र० → आन । अनेन त्वर० → तुवर०-जअड० । 'न्त-माणौ' (३।१८०) ? ('शत्रानशः' (३।१८१)) आन० → न्त० । प्रथमा सि। 'अत: से?:' (३।२) सि० → डो० → ओ० तुवरन्तो जअडन्तो । त्वरमाण इत्यर्थः ॥१७०॥
त्यादि-शत्रोस्तूरः ॥ ८।४।१७१ ॥ त्वरतेस्त्यादौ शतरि च तूर इत्यादेशो भवति ॥ तूरइ । तुरन्तो । [त्यादि-शत्रोस्तूरः ] त्यादि-शतृ षष्ठी ओस् । तूर प्रथमा सि । [तूरइ तूरन्तो ] 'जित्वरिष् सम्भ्रमे' (१०१०) त्वर । त्यादिप्रत्यये-तूरइ । शतृप्रत्यये-तुरन्तो ॥१७१।।
तुरोऽत्यादौ ॥ ८।४।१७२ ॥ त्वरोऽत्यादौ तुर आदेशो भवति ॥ तुरिओ। तुरन्तो ॥ [तुरोऽत्यादौ ] तुर प्रथमा सि । अत्यादि सप्तमी ङि । .
[तुरिओ] 'जित्वरिष् सम्भ्रमे' (१०१०) त्वर् । क्तप्र० । 'व्यञ्जना०' (४।२३९) अत् । 'क्ते (३।१५६) अ० → इ० । अनेन तुर आदेशः । 'लुक्' (१।१०) अलुक् । 'लोकात्' (१।१।३) तुरित० । 'क-ग-च-ज०' (१।१७७) त्लुक् । प्रथमा सि । 'अत: से?:' (३।२) सि० → डो० → ओ० तुरिओ ॥१७२।।
क्षरः खिर-झर-पज्झर-पच्चड-णिव्वल-णिआः ॥ ८।४।१७३ ॥ क्षरेरेते षडादेशा भवन्ति ॥ खिरइ । झरइ । पज्झरइ । पच्चडइ । णिव्वलइ । णिटुअइ ॥
[क्षरः खिर-झर-पज्झर-पच्चड-णिव्वल-णिमुआ:] क्षर् षष्ठी ङस् । खिर-झर-पज्झर-पच्चड-णिव्वल-णिट्टअ प्रथमा जस् ॥१७३॥
उच्छल उत्थल्लः ॥८।४।१७४ ॥
उच्छलतेरुत्थल्ल इत्यादेशो भवति ।। उत्थल्लइ ।। [उच्छल उत्थल्लः ] उच्छल् षष्ठी ङस् । उत्थल्ल प्रथमा सि ।
[ उत्थलड़] उत्पूर्व० 'शल गतौ' (९८४) शल् । वर्तः तिव् । अनेन उत्थल्ल आदेशः । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० उत्थालइ ॥१७४।।
विगलेस्थिप्प-णिटुहौ ॥ ८।४।१७५ ॥ विगलतेरेतावादेशौ वा भवतः ॥ थिप्पइ । णिट्टहइ । विगलइ ।
१. पा० म० - क्षर० → णिच्चल० - णिव्वल० ।