________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
४६३
अभ्याडोम्मत्थः ॥ ८।४।१६५ ॥ अभ्याङ्भ्यां युक्तस्य गमेः उम्मत्थ इत्यादेशो वा भवति ।। उम्मत्थइ । अब्भागच्छइ । अभिमुखमागच्छतीत्यर्थः ।। [अभ्याडोम्मत्थः] अभ्याङ् तृतीया टा । उम्मत्थ प्रथमा सि ।
पक्षे- [अब्भागच्छड़ ] अभि-आपूर्व० 'गम्लुं गतौ' (३९६) गम् । गच्छइ पूर्ववत् [४।१६२] । 'लुक्' (१।१०) इलुक् । 'तैलादौ' (२।९८) द्वित्वं-भूभ्० । 'द्वितीय-तुर्य०' (२।९०) पूर्वभस्य बः अब्भागच्छड़ ॥१६५।।
प्रत्याङन पलोट्टः ॥ ८।४।१६६ ॥ प्रत्याभ्यां युक्तस्य गमेः पलोट्ट इत्यादेशो वा भवति ॥ पलोट्टई । पच्चागच्छइ ।। [प्रत्याङ पलोट्टः] प्रत्याङ् तृतीया टा । पलोट्ट प्रथमा सि ।
पक्षे- [पच्चागच्छइ ] प्रत्यागच्छइ । 'त्योऽचैत्ये' (२।१३) त्या० → चा० । 'अनादौ०' (२।८९) द्वित्वं-च्चा० पच्चागच्छड ॥१६६॥
शमेः पडिसा-परिसामौ ॥ ८।४।१६७ ॥ शमेरेतावादेशौ वा भवतः । पडिसाइ । परिसामइ । समइ । [शमेः पडिसा-परिसामौ ] शमि षष्ठी ङस् । पडिसा-परिसाम प्रथमा औ ।
पक्षे- [ समइ ] 'शमू उपशमे' (१२३०) शम् । वर्तः तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) शमति । 'श-षोः सः' (१२२६०) श० → स० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० समइ ॥१६७॥
रमेः संखुड्ड-खेड्डोब्भाव-किलिकिञ्च-कोट्ठम-मोट्टाय-णीसर-वेल्लाः ॥ ८।४।१६८ ॥ रमतेरेतेऽष्टादेशा वा भवन्ति ॥ संखुड्डइ । खेड्डइ । उब्भावइ । किलिकिञ्चइ । कोट्टमइ । मोट्टायइ । णीसरइ । वेल्लइ । रमइ ॥
[रमे: संखुड्ड-खेड्डोब्भाव-किलिकिञ्च-कोडम-मोट्टाय-णीसर-वेल्लाः] रमि षष्ठी ङस् । संखुड्डखेड्डोब्भाव-किलिकिञ्च-कोट्टम-मोट्टाय-णीसर-वेल्ल प्रथमा जस् ।
पक्षे- [रमइ ] 'रमिं क्रीडायाम्' (९८९) रम् । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) रमते । 'त्यादीना०' (३।१३९) ते० → इ० रमइ ॥१६८॥
पूरेरग्घाडा-ऽग्घवोद्धमा-ऽङ्गमा-ऽहिरेमाः ॥ ८।४।१६९ ॥ पूरेरेते पञ्चादेशा वा भवन्ति । अग्घाडइ । अग्घवइ । उद्घमाइ । अङ्गुमइ । अहिरेमइ । पूरइ ॥ [ पूरेरग्घाडा-ऽग्घवोद्धमा-ऽङ्गमा-ऽहिरेमाः ] पूरि षष्ठी ङस् । अग्घाडा-ऽग्घवोद्धमा-ऽङ्गुमा-ऽहिरेम प्रथमा जस् ।
पक्षे- [ पूरइ ] 'पूरण पूरणे(आप्यायने)' (१७४९) पूर । वर्तः तिव् । 'चुरादि०' (३।४।१७) णिच्प्र० । 'णेरदेदावावे' (३।१४९) णिच् → अत्० । 'लोकात्' (१।१।३) पूरति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० पूरइ ॥१६९॥