________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
[स्वपेः कमवस-लिस-लोट्टाः ] स्वपि षष्ठी ङस् । कमवस-लिस-लोट्ट प्रथमा जस् ।
पक्षे- [सुअइ ] 'जिष्वपंक् शये' (१०८८) ष्वप् । 'ष: सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्वप् । वर्त० तिव् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१३) स्वपइ । 'स्वपावुच्च' (११६४) सु० । 'क-ग-च-ज०' (१।१७७) प्लुक् सुअइ ॥१४६।।
वेपेरायम्बा-ऽऽयज्झौ ॥ ८।४।१४७ ॥ वेपेरायम्ब-आयज्झ इत्यादेशौ वा भवत: ॥ आयम्बइ । आयज्झइ । वेवइ । [ वेपेरायम्बा-ऽऽयज्झौ] वेपि षष्ठी ङस् । आयम्ब-आयज्झ प्रथमा औ ।
पक्षे- [ वेवइ ] 'टुवेपृङ् कम्पने' (७५४) वेप् । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) वेपते। 'पो वः' (१।२३१) प० → व० । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० वेवइ ॥१४७॥
विलपेझख-वडवडौ ॥ ८।४।१४८ ॥ विलपेझख - वडवड इत्यादेशौ वा भवतः ॥ झलइ । वडवडइ । विलवइ ॥ [विपलेझख-वडवडौ] विलपि षष्ठी ङस् । झङ्ख-वडवड प्रथमा औ।
पक्षे-[विलवइ] विपूर्व० 'लप व्यक्ते वचने' (३३६) लप् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) विलपति । 'पो वः' (१।२३१) प० → व० विलवइ । विलपतीत्यर्थः ॥१४८॥
'लिपो लिम्पः ॥ ८।४।१४९ ॥ लिम्पतेलिम्प इत्यादेशो भवति || लिम्पइ ।। [लिपो लिम्पः] लिए षष्ठी ङस । लिम्प प्रथमा सि ।
[लिम्पइ ] 'लिपीत् उपदेहे' (१३२४) लिप् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) लिपति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । अनेन लिम्प आदेशः लिम्पइ ॥१४९॥
गुप्येविर-णडौ ॥ ८।४।१५० ॥ गुप्यतेरेतावादेशौ वा भवतः ॥ विरइ । णडइ । पक्षे-गुप्पइ ।। [ गुप्येविर-णडौ ] 'गुप्यि षष्ठी ङस् । विर-णड प्रथमा औ ।
पक्षे-[गुप्पइ ] 'गुपच् व्याकुलत्वे' (११९२) गुप् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) गुपति । 'शकादीनां द्वित्वम्' (४।२३०) प० → प्प० । 'त्यादीनामाद्य०' (३१३९) तिव्० → इ० गुप्पइ ॥१५०॥
क्रपोऽवहो णिः ॥ ८।४।१५१ ॥ क्रपेः अवह इत्यादेशो ण्यन्तो भवति ॥ अवहावेइ । कृपां करोतीत्यर्थः ।।
[क्रपोऽवहो णिः] क्रप् षष्ठी ङस् । अवह प्रथमा सि । णि प्रथमा सि । १. B. लिपेलिवः । लिपतेलिव इत्यादेशो भवति ॥ लिवइ । लिपइ || C. लिपेलिप: । लिपतेलिप इत्यादेशो भवति || लिपइ । २. G. गुपेविर-णडौ । ३. E. गुपि षष्ठी ङस् ।