________________
४५८
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकतव्याकरणे ॥
समापेः समाणः ॥ ८।४।१४२ ॥ समाप्नोतेः समाण इत्यादेशो वा भवति ॥ समाणइ । समावेइ ।। [समापेः समाण: ] समापि षष्ठी ङस् । समाण प्रथमा सि ।
पक्षे-[ समावेइ ] सम्पूर्व० 'आप्लँट् व्याप्तौ' (१३०७) आप् । वर्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१३) समापति । त्यादीनामा०' (३।१३९) तिव्० → इ० । 'वर्तमाना-पञ्चमी-शतषु वा' (३।१५८) प० → पे० । 'पो वः' (१२२३१) पे० → वे० समावेइ । समाप्नोतीत्यर्थः ॥१४२॥
क्षिपेर्गलस्था-ऽड्डक्ख-सोल्ल-पेल्ल-णोल्ल-छुह-हुल-परी-घत्ताः ॥ ८।४।१४३ ॥ क्षिपेरेते नवादेशा वा भवन्ति ॥ गलत्थइ । अड्डक्खइ । सोल्लइ । पेल्लइ । णोल्लइ । हूस्वत्वे तु- णुल्लइ । छुहइ । हुलइ । परीइ । घत्तइ । खिवइ ।
[क्षिपेर्गलत्थ-अड्डक्ख-सोल्ल-पेल्ल-णोल्ल-छुह-हुल-परी-घत्ताः ] क्षिपि षष्ठी ङस् । गलत्थ-अड्डक्ख-सोल्लपेल्ल-णोल्ल-छुह-हुल-परी-घत्त प्रथमा जस् ।
पक्षे- [खिवइ ] 'क्षिपीत् प्रेरणे' (१३१७) क्षिप् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१२११३) क्षिपति । 'पो वः' (१।२३१) प० → व० । 'क्षः खः क्वचित्तु छ-झौ' (२।३) क्षि० → खि० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० खिवइ ॥१४३||
उत्क्षिपेर्गुलगुञ्छोत्थङ्या-उल्लत्थोब्भुत्तोस्सिक्क-हक्खुवाः ॥ ८।४।१४४ ॥ उत्पूर्वस्य क्षिपेरेते षडादेशा वा भवन्ति ॥ गुलगुञ्छइ । उत्थङ्घइ । अल्लत्थइ । उब्भुत्तइ । उस्सिक्कइ । हक्खुवइ । उक्खिवइ ।
[उत्क्षिपेर्गुलगुञ्छोत्थङघा-ऽल्लत्योब्भुत्तोस्सिक-हक्खुवाः] उत्क्षिपि षष्ठी ङस् । गुलगुञ्छ-उत्थङ्घ-अल्लत्थउन्भुत्त-उस्सिक्क-हक्खुव प्रथमा जस् ।
[हक्खुवइ उक्खिवइ ] उत्पूर्व० 'क्षिपीत् प्रेरणे' (१३१७) क्षिप् । हक्खुवइ इत्यत्र 'पो वः' (१।२३१) प० → व० । पक्षे-उत्पूर्व० क्षिप् । खिवइ पूर्ववत् । 'क-ग-ट-ड' (२७७) त्लुक् । 'अनादौ०' (२।८९) द्वित्वम् - ख्खि० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः उक्खिवइ । उत्क्षिपतीत्यर्थः ॥१४४||
आक्षिपेीरवः ॥ ८।४।१४५ ॥ आपूर्वस्य क्षिपेीरव इत्यादेशो वा भवति ॥ णीरवइ । अक्खिवइ ।। [आक्षिपेीरवः] आक्षिपि षष्ठी ङस् । णीरव प्रथमा सि ।
पक्षे- [अक्खिवइ ] आपूर्व० "क्षिपीत् प्रेरणे' (१३१७) क्षिप् । खिवइ पूर्ववत् (४।१४३) । 'अनादौ०' (२।८९) द्वित्वम्-खि० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वखस्य कः । 'हुस्वः संयोगे' (१८४) आ० → अ० अक्खिवइ ॥१४५।।
स्वपेः कमवस-लिस-लोट्टाः ॥ ८।४।१४६ ॥ स्वपेरेते त्रय आदेशा वा भवन्ति । कमवसइ । लिसइ । लोट्टइ । सुअइ ।।