________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
४५७
तनेस्तड-तड्ड-तड्डव-विरल्लाः ॥ ८।४।१३७ ।। तनेरेते चत्वार आदेशा वा भवन्ति ॥ तडइ । तड्डइ । तड्डवइ । विरल्लइ । तणइ ॥ [तनेस्तड-तड्ड-तड्डव-विरल्लाः] तनि षष्ठी ङस् । तड-तड्ड-तड्डव-विरल्ल प्रथमा जस् ।
पक्षे-[तणइ ] 'तनूयी विस्तारे' (१४९९) तन् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।११३) तनति । 'नो णः' (१।२२८) न० → ण । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० तणइ । तनोतीत्यर्थः ॥१३७।।
तपस्थिप्पः ॥८।४।१३८ ॥ तृप्यतेस्थिप्प इत्यादेशो भवति ॥ थिप्पइ ॥ [तृपस्थिप्पः ] तृप् षष्ठी ङस् । थिप्प प्रथमा सि । [थिप्पइ ] 'तृपौच प्रीतौ' (११८९) तृप् । वर्त्त तिव् । अनेन थिप्प इति । तृप्यतीत्यर्थः ॥१३८॥
उपसरल्लिअः ॥ ८।४।१३९ ॥ उपपूर्वस्य सृपेः कृतगुणस्य अल्लिअ इत्यादेशो वा भवति ॥ 'अल्लिअइ । उवसप्पइ । [ उपसरल्लिअः] उपसर्पि षष्ठी ङस् । अल्लिअ प्रथमा सि ।
पक्षे-[उवसप्पइ ] उपपूर्व० 'सृप्लूं गतौ' (३४१) सृप । वर्त्तः तिव् । 'लघोरुपान्त्यस्य' (४।३।४) गु० सृ० → सर्० | 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) उपसर्पति । 'सर्वत्र ल-व०' (२७९) लुक् । 'अनादौ०' (२१८९) द्वित्वम् - प० → प्प० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । 'पो वः' (१।२३१) प० → व० उवसप्पइ ॥१३९॥
संतपेसृङ्खः ॥ ८।४।१४० ॥ 'संतप्यतेझङ्ख इत्यादेशो वा भवति । झङ्खइ । संतप्पइ ।। [संतपेझङ्खः ] संतपि षष्ठी ङस् । झङ्ख प्रथमा सि ।
पक्षे- [संतप्पड़ ] सम्पूर्व० "तपिंच ऐश्वर्ये' (१२६७) तप् । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१२११३) संतपते । 'शकादीनां द्वित्वम्' (४।२३०) प० → प्प० । 'त्यादीनामाद्य०' (३१३९) ते० → इ० संतप्पड़ । संतप्यते इत्यर्थः ॥१४॥
व्यापेरोअग्गः ॥ ८।४।१४१ ॥ व्याप्नोतेरोअग्ग इत्यादेशो वा भवति ॥ ओअग्गइ । वावेइ । [व्यापेरोअग्गः] व्यापि षष्ठी ङस् । ओअग्ग प्रथमा सि ।
पक्षे- [वावेइ] वि-आपर्व० 'आप्लृट् व्याप्तौ' (१३०७) आप् । 'इवर्णादे०' (१।२।१) यत्वम् । वर्त्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) व्यापति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । 'वर्तमानापञ्चमी०' (३।१५८) प० → पे० । 'पो वः' (१।२३१) पे० → वे० । 'अधो म-न-याम्' (२७८) यलुक् वावेइ । व्याप्नोतीत्यर्थः ॥१४॥ १. J. अलिअइ । २. H. J. M. संतपे० । ३. I. 'तपं संतापे' (३३३) ।