________________
४५६
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[आक्रन्देर्णीहरः] आक्रन्दि षष्ठी ङस् । णीहर प्रथमा सि ।
पक्षे- [अक्कन्दइ ] आयूर्व० 'क्रदुङ् वैक्लव्ये' (१००७) क्रद् । 'उदित: स्वरा०' (४।४।९८) नोऽन्तः । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) आक्रन्दते' । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० । 'सर्वत्र ल-व०' (२।७९) लुक् । 'अनादौ०' (२।८९) द्वित्वम् - क० → क० । 'हस्वः संयोगे' (१९८४) आ० → अ० अक्वन्दइ । आक्रन्दं करोतीत्यर्थः ॥१३१।।
__ खिदेर्जूर-विसूरौ ॥ ८।४।१३२ ॥ खिदेरेतावादेशौ वा भवतः ॥ जूरइ । विसूरइ । खिज्जइ ॥ [खिदेर्जूर-विसूरौ] खिदि षष्ठी ङस् । जूर - विसूर प्रथमा औ ।
पक्षे- [खिज्जइ ] 'खिदिंच दैन्ये' (१२५९) खिद् । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) खिदते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० । 'खिदां ज्जः' (४।२२४) द् → ज्ज० खिज्जइ। खिद्यते इत्यर्थः ॥१३२॥
रुधेरुत्थवः ॥ ८।४।१३३ ॥ रुधेरुत्थङ्घ इत्यादेशो वा भवति ॥ उत्थङ्घइ । रुन्धइ ॥ [रुधेरुत्थवः ] रुधि षष्ठी ङस् । उत्थङ्घ प्रथमा सि ।
पक्षे- [रुन्धइ ] 'रुधूपी आवरणे' (१४७३) रुध् । वर्त्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१९६३) रुधति । 'रुधो न्ध-म्भौ च' (४।२१८) धस्य न्ध० रुन्धइ ॥१३३।।
निषेधेर्हक्कः ॥ ८।४।१३४ ॥ निषेधतेर्हक्क इत्यादेशो वा भवति ॥ हक्कइ । निसेहइ ॥ [निषेधेर्हक्कः] निषेधि षष्ठी ङस् । हक्क प्रथमा सि ।
पक्षे- [निसेहइ ] निपूर्व० 'षिधू गत्याम्' (३२०) षिध् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) निषिधति । 'युवर्णस्य०' (४।२३७) षि० → षे० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० । 'ख-घ-थ-धभाम्' (१।१८७) धस्य हः । 'श-षोः सः' (१।२६०) ० → से० निसेहइ ॥१३४॥
८।४।१३५ ॥ क्रुधेर्जूर इत्यादेशो वा भवति ॥ जूरइ । कुज्झइ ॥ [क्रुधेजूरः ] क्रुधि षष्ठी ङस् । जूर प्रथमा सि ।
पक्षे- [कुज्झइ ] 'क्रुधंच् कोपे' (११८४) क्रुध् । वर्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१३) क्रुधति । 'सर्वत्र ल-व-रामवन्द्रे' (२७९) रलुक् । 'युध-बुध-गृध-क्रुध-सिध-मुहां ज्झः' (४।२१७) धस्य ज्झः । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० कुज्झइ । क्रुध्यतीत्यर्थः ॥१३५।।
_जनो जा-जम्मौ ॥ ८।४।१३६ ॥ जायतेर्जा-जम्म इत्यादेशौ भवतः ॥ जाअइ । जम्मइ ।। [जनो जा-जम्मौ ] जन् षष्ठी ङस् । जा-जम्म प्रथमा औ । [जाअइ जम्मइ ] 'जनैचि प्रादुर्भावे' (१२६५) जन् । अनेन जा-जम्म आदेशौ । जायते इत्यर्थः ॥१३६।।