________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
मृदो मल-मढ-परिहट्ट - खड्ड - चड्डमड्ड - पन्नाडा: ॥ ८|४|१२६ ॥
मृद्नातेरेते सप्तादेशा भवन्ति ॥ मलइ । मढइ । परिहट्टइ । खड्डइ । चड्डइ । मड्डइ । पन्नाडइ ॥
[ मृदो मल-मढ परिहट्ट - खड्ड - चड्ड-मड्ड - पन्नाडा: ] मृद् षष्ठी ङस् । मल-मढ - परिहट्ट - खड्ड - चड्डमड्ड - पन्नाड प्रथमा जस् ।
४५५
[ मलइ-मढइ-परिहट्टइ- खड्डइ - चड्डइ-मड्डइ - पन्नाडइ ] 'मृदश् क्षोदे' (१५५०) मृद् । अनेन सप्तादेशाः । मृद्नातीत्यर्थः ॥१२६॥
स्पन्देश्चलुचुलः ॥ ८|४|१२७ ॥
स्पन्देश्चलुचुल इत्यादेशो वा भवति ॥ चुलुचुलइ । फन्द ॥
[ स्पन्देश्चलुचुलः ] स्पन्दि षष्ठी ङस् । चुलुचुल प्रथमा सि ।
पक्षे - [ फन्दइ ] 'स्पदुङ् किञ्चिच्चलने' (७२९) स्पद् । 'उदितः स्वरान्नोऽन्तः' ( ४|४|९८ ) नोऽन्तः - स्पन्द् । 'ष्पस्पयो: फः' (२/५३) स्प० फ० । 'व्यञ्जनाददन्ते' (४।२३९) अंत् । 'लोकात् ' (१|१|३) फन्दते । 'त्यादीनामाद्य ० ' (३।१३९) ते० इ० फन्दइ ॥ १२७||
निरः पदेर्वलः ॥ ८।४।१२८ ॥ निर्पूर्वस्य पदेर्वल इत्यादेशो वा भवति । निव्वलइ । निप्पज्जइ ॥
[ निरः पदेर्वलः ] निर् पञ्चमी ङसि । पदि षष्ठी ङस् । वल प्रथमा सि ।
पक्षे [ निप्पज्जइ ] निर्पूर्व० 'पर्दिच् गतौ' (१|१|३) निर्र्पदते । 'स्विदां ज्ज:' ( ४।२२४) द्० (२।७७) ष्लुक् । ‘अनादौ०' (२२८९) द्वित्वम् - प० प्प० निप्पज्जइ । निष्पद्यते इत्यर्थः ॥ १२८ ॥
विसंवदेर्विअट्ट - विलोट्ट-फंसाः || ८|४|१२९ ॥
वि-सम्पूर्वस्य वदेरेते त्रय आदेशा वा भवन्ति ॥ विअट्टइ । विलोट्टइ । फंसइ । विसंवयइ ॥
[विसंवदेः ] विसंवदि षष्ठी ङस् ।
[ विअट्ट - विलोट्ट-फंसा: ] विअट्ट-विलोट्ट-फंस प्रथमा जस् ।
पक्षे - [ विसंवयइ ] वि-सम्पूर्व० 'वद व्यक्तायां वाचि' (९९८) वद् । वर्त्त० तिव् । 'व्यञ्जनाद०' (४।२३९) अत् । 'लोकात् ' (१|१|३) विसंवदति । 'क-ग-च-ज०' (१।१७७) लुक् । 'अवर्णो०' (१।१८०) अ० → य० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० विसंवय । विसंवदतीत्यर्थः ॥ १२९ ॥
शदो झड - पक्खोडौ ॥ ८।४।१३० ॥
(१२५७) पद् । वर्त्त० ते । 'व्यञ्जना ० ' ( ४।२३९) अत् । 'लोकात् ' ज्ज० । 'निर्दुर्बहिरावि० ' (२२३९) र्० ष्० । 'क-ग-ट-ड०'
शीयतेरेतावादेशौ भवतः । झडइ । पक्खोडइ ॥
[शदो झड पक्खोडौ ] शद् षष्ठी ङस् । झडपक्खोड प्रथमा औ ।
[झडइ पक्खोडइ ] 'शद्ॡ शातने' (९६७) शद् । वर्त्त० तिव् । अनेन झड पक्खोड आदेशौ । शटतीत्यर्थः ॥१३०॥
आक्रन्देर्णीहरः ॥ ८।४।१३१ ॥
आक्रन्देर्णीहर इत्यादेशो वा भवति ॥ णीहरइ । अक्कन्द ||