________________
४६०
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[अवहावेइ ] 'क्रपि कृपायाम्' (१००९) क्रप् । वर्त० ते । णिगप्र० । अनेन क्रप० → अवह आदेशः । 'णेरदेदावावे' (३।१४९) णिग्० → आवे० । 'समानानां०' (१।२।१) दीर्घः । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० अवहावेइ ॥१५१।।
प्रदीपेस्तेअव-सन्दुम-सन्धुक्का-ऽब्भुत्ताः ॥ ८।४।१५२ ॥ प्रदीप्यतेरेते चत्वार आदेशा वा भवन्ति ॥ तेअवइ । सन्दुमइ । सन्धुक्कइ । अब्भुत्तइ । पलीवेइ ॥ [प्रदीपेस्तेअव-सन्दुम-सन्धुक्का-ऽब्भुत्ताः] प्रदीपि षष्ठी ङस् । तेअव-सन्दुम-सन्धुक्क-अब्भुत्त प्रथमा जस् ।
पक्षे-[ पलीवेइ ] प्रपूर्व० 'दीपैचि दीप्तौ' (१२६६) दीप् । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) प्रदीपते । 'प्रदीपि-दोहदे लः' (११२२१) दस्य ल: । 'वर्तमाना-पञ्चमी०' (३।१५८) प० → पे० । 'पो वः' (११२३१) पे० → वे० । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० । 'सर्वत्र ल-व-रामवन्द्रे' (२७९) लुक् पलीवेइ ॥१५२।।
लुभेः सम्भावः ॥ ८।४।१५३ ॥ लुभ्यतेः सम्भाव इत्यादेशो वा भवति ॥ सम्भावइ । लुब्भइ ।। [लुभेः सम्भावः ] लुभि षष्ठी ङस् । सम्भाव प्रथमा सि ।
पक्षे- [ लुब्भइ ] 'लुभच् गायें' (११९८) लुभ् । वर्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) लुभति । 'शकादीनां द्वित्वम्' (४।२३०) द्वित्वम्-भ्भ० । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वभस्य बः । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० लुब्भइ ॥१५३|
क्षुभेः खउर-पड्डुहौ ॥ ८।४।१५४ ॥ क्षुभेः खउर-पड्डुह इत्यादेशौ वा भवतः ॥ खउरइ । पड्डुहइ । खुब्भइ ॥ [ क्षुभेः खउर-पड्डुहौ ] क्षुभि षष्ठी ङस् । खउर-पड्डुह प्रथमा औ ।
पक्षे- [खुब्भइ] 'क्षुभश् सञ्चलने' (१५५३) क्षुभ् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) क्षुभति । 'क्षः खः क्वचित्तु०' (२३) क्षु० → खु० । 'शकादीनां द्वित्वम्' (४।२३०) द्वित्वम्-भूभ० । 'द्वितीयतुर्ययो०' (२।९०) पूर्वभस्य बः । 'त्यादीनामा०' (३।१३९) तिव्० → इ० खुब्भइ ॥१५४||
आडने रभे रम्भ-ढवौ ॥ ८।४।१५५ ॥ आङः परस्य रभे रम्भ-ढव इत्यादेशौ वा भवतः ॥ आरम्भइ । आढवइ । आरभइ ॥ [आङो रभे रम्भ-ढवौ] आङ् पञ्चमी ङसि । रभि षष्ठी ङस् । रम्भ-ढव प्रथमा औ ।
पक्षे- [आरभइ ] आपूर्व० 'रभिं राभस्ये' (७८५) रभ् । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) आरभते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० आरभइ ॥१५५॥
उपालम्भेझख-पच्चार-वेलवाः ॥८।४।१५६ ॥ उपालम्भेरेते त्रय आदेशा वा भवन्ति ।। झङ्खइ । पच्चारइ । वेलवइ । 'उवालम्भइ । [ उपालम्भेर्झल-पच्चार-वेलवाः ] उपालम्भि षष्ठी ङस् । झङ्ख-पच्चार-वेलव प्रथमा जस् ।
[उवालम्भइ ] उप-आपूर्व० 'डुलभिष् प्राप्तौ' (७८६) लभ् । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) उपालभते । 'पो वः' (१।२३१) पा० → वा० । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० उवालम्भइ ॥१५६।।
१. E. उवालभइ।