________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
४४७
चयइ । तरइ । तीरइ । पारइ । सक्कइ । त्यजतेरपि चयइ । हानि करोति । तरतेरपि तरइ । तीरयतेरपि तीरइ । पारयतेरपि 'पारइ । कर्म समाप्नोति ।
[शकेश्चय-तर-तीर-पाराः] शकि षष्ठी ङस् । चय-तर-तीर-पार प्रथमा जस् ।
पक्षे- [ सक्कड़ ] 'शक्लृट् शक्तौ' (१३००) शक् । वर्त्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१३) शकति । 'शकादीनां द्वित्वम्' (४।२३०) क० । 'श-षोः सः' (१।२६०) श० → स० । 'त्यादीनामाद्य०' (३।१३९) तिव० → इ० सक्कइ ।
एतानि चतूरूपाणि आदेशान् विनापि भवन्ति । यथा
[चयइ] 'त्यजं हानौ' (१७२) त्यज् । वर्त० तिव । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।११३) त्यजति । 'क-ग-च-ज०' (१।१७७) जुलुक् । 'अवर्णो यश्रुतिः' (१।१८०) अ० → य० । 'त्योऽचैत्ये' (२०१३) त्य० → च० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० चयइ ॥
[तरइ ] 'तृ प्लवन-तरणयोः' (२७) तृ । वर्तः तिव् । 'ऋवर्ण०' (४।२३४) तृ० → तर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) तरति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० तरइ ।
[पारइ ] 'पार कर्मसमाप्तौ' (१९०१) पार । वर्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) पारति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० पारइ ॥८६॥
फक्वस्थक्कः ॥८४८७॥ फक्कतेस्थक्क इत्यादेशो भवति ॥ थक्कइ ।। [फक्कस्थक्कः ] फक्क् षष्ठी ङस् । थक्क प्रथमा सि ।
[थक्कड़ ] 'फक्क नीर्चेर्गतौ' (५०) फक्क् । वर्त० तिव् । अनेन फक्क० → थक्क० । 'त्यादीनामाद्य०' (३।१३९) तिव० → इ० थक्कड़ ॥८७||
श्लाघः सलहः ॥ ८।४८८ ॥ श्लाघते: सलह इत्यादेशो भवति ॥ सलहइ ॥ [श्लाघः सलहः ] श्लाघ् षष्ठी ङस् । सलह प्रथमा सि ।
[सलहइ] 'श्लाघृङ् कत्थने' (६४५) श्लाघ् । वर्त० ते । अनेन श्लाघ० → सलह । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० सलहइ । श्लाघते इत्यर्थः ॥८८॥
खचेर्वेअडः ॥ ८।४८९ ॥ खचतेर्वेअड इत्यादेशो वा भवति ॥ वेअडइ । खचइ ॥ [खचेर्वेअडः] खचि षष्ठी ङस् । वेअड प्रथमा सि ।
पक्षे- [खचइ ] "खचि प्रादुर्भावे' ( ) खच् । वर्त्तः तिव्(ते) । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१३) खचति(ते) । 'त्यादीनामाद्य०' (३।१३९) तिव्०(ते) → इ० खचइ ।।८९॥
१. H. J. पारेइ । २. G खचि सौत्रधातुः सम्बन्धार्थः । धा० पा० - खवश् हेठशवत् (भूतप्रादुर्भावे) चान्तोऽयमित्येके । चान्तं धात्वन्तरमित्यन्ये ।