________________
४४६
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[आअड्डेइ ] 'वर्तमाना-पञ्चमी०' (३।१५८) ड्ड० → ड्डे० आअड्डेइ ।
पक्षे- [वावरेइ] वि-आपूर्व० 'पुत् व्यायामे' (१४६५) पृ । वर्त० ते । 'ऋवर्ण०' (४।२३४) व्यापृ० → व्यापर० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) व्यापरते । 'पो वः' (१२२३१) प० → व० । 'अधो म-न०' (२७८) यलुक् । 'वर्तमाना-पञ्चमी०' (३।१५८) र० → रे० । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० वावरेइ ॥८॥
संवृगेः साहर-साहटौ ॥ ८।४।८२ ॥ संवृणोतेः साहर-साहट्ट इत्यादेशौ वा भवतः ॥ साहरइ । साहट्टइ । संवरइ ॥ [संवृगेः साहर-साहटौ ] संवृगि षष्ठी ङस् । साहर-साहट्ट प्रथमा औ ।
पक्षे- [संवरइ] 'वृगट वरणे' (१२९४) वृ, सम्पूर्व० । वर्त० तिव् । 'ऋवर्ण०' (४।२३४) संवृ० → संवर० । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) संवरति । 'त्यादीनामाद्य०' (३।१३९) तिव० → इ० संवरइ ॥८२॥
___ आदृडे सन्नामः ॥ ८।४।८३ ॥ आद्रियतेः सन्नाम इत्यादेशो वा. भवति ॥ सन्नामेइ । आदरइ ।। [आदृडेः सन्नामः ] आदृङि षष्ठी ङस् । सन्नाम प्रथमा सि ।
पक्षे- [आदरइ ] आयूर्व० 'दंइत् आदरे' (१४६६) दृ । वर्त० ते । 'ऋवर्ण०' (४।२३४) आदृ० → आदर० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) आदरते । 'त्यादीनामा०' (३।१३९) ते० → इ० आदरइ ॥८३||
प्रहगे: सारः ॥ ८।४।८४ ॥ प्रहरतेः सार इत्यादेशो वा भवति ॥ सारइ । पहरइ । [प्रहगेः सारः] प्रहगि षष्ठी ङस् । सार प्रथमा सि ।
पक्षे- [पहरइ] प्रपूर्व० 'हंग हरणे' (८८५) ह । वर्त० तिव् । 'ऋवर्ण०' (४।२३४) हृ० → हर० । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'सर्वत्र ल-व०' (२१७९) लुक् । 'लोकात्' (१।१।३) पहरति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० पहरइ ॥८४॥
. अवतरेरोह-ओरसौ ॥ ८।४।८५ ॥ अवतरतेः ओह-ओरस इत्यादेशौ वा भवतः ॥ ओहइ । ओरसइ । ओअरइ ॥ [अवतरेरोह-ओरसौ ] अवतरि षष्ठी ङस् । ओह-ओरस प्रथमा औ।
पक्षे- [ओअरइ ] 'तृ प्लवन-तरणयोः' (२७) तृ, अवपूर्व० । वर्तः तिव् । 'ऋवर्ण०' (४।२३४) तृ० → तर० । 'व्यञ्जना०' (४।२३९) अत् । 'अवापोते' (१।१७२) अवस्य ओ० । 'क-ग-च-ज०' (१।१७७) त्लुक् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० ओअरइ ॥८५।।
शकेश्चय-तर-तीर-पाराः ॥ ८४८६ ॥ शक्नोतरेते चत्वार आदेशा वा भवन्ति ॥