________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
[व्याहगे: कोक्क-पोक्कौ ] व्याहृगि षष्ठी ङस् । कोक्क-पोक्क प्रथमा औ ।
पक्षे- [वाहरइ] वि-आपर्व० 'हंग हरणे' (८८५) ह । वर्तः तिव् । 'ऋवर्ण०' (४।२३४) ह० → हर० । 'अधो म-न०' (२।७८) यलुक् वाहरइ । जल्पतीत्यर्थः ॥७६।।
प्रसरेः पयल्लोवेल्लौ ॥ ८।४७७ ॥ प्रसरतेः पयल्ल-उवेल्ल इत्येतावादेशौ वा भवतः ॥ पयल्लइ । उवेल्लइ । पसरइ ॥ [प्रसरेः पयल्लोवेल्लौ ] प्रसरि षष्ठी ङस् । पयल्ल-उवेल्ल प्रथमा औ।
[पसरइ] प्रपूर्व० 'सं गतौ' (२५) सृ० । वर्त० तिव् । 'स्वरादनतो वा' (४।२४०) अत् । 'ऋवर्ण०' (४।२३४) सर० पसरइ ॥७७||
महमहो गन्धे ॥ ८।४।७८ ॥ प्रसरतेर्गन्धविषये महमह इत्यादेशो वा भवति । महमहइ मालई । 'मालइगन्धो पसरइ ॥ गन्ध इति किम् ? पसरइ ।। [महमहो गन्धे] महमह प्रथमा सि । गन्ध सप्तमी ङि ।
[मालइगन्धो पसरह] अत्र 'दीर्घ-हस्वौ मिथो वृत्तौ' (१।४) ती० → ति० । 'क-ग-च-ज०' (१११७७) त्लुक् ॥७८॥
'निस्सरेीहर-नील-धाड-वरहाडाः ॥ ८४७९ ॥ निस्सरतेरेते चत्वार आदेशा वा भवन्ति ॥ णीहरइ । नीलइ । धाडइ । वरहाडइ । नीसरइ ॥ [निस्सरेः] निःसरि षष्ठी ङस् ।। [णीहर-नील-धाड-वरहाडाः] णीहर-नील-धाड-वरहाड प्रथमा जस् ।
पक्षे- [नीसरइ ] निपूर्व० 'स्मं चिन्तायाम्' (१८) स्मृ । वर्तः तिव् । 'निर्दुरोर्वा' (१।१३) लुक् । 'लुंकि निरः' (१।९३) नि० → नी० । 'ऋवर्ण०' (४।२३४) अर० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० नीसरइ ॥७९॥
जाग्रेजग्गः ॥ ८।४।८० ॥ जागर्तेर्जग्ग इत्यादेशो वा भवति || जग्गइ । पक्षे-जागरइ ।। [जाग्रेर्जग्गः] जाग्रि षष्ठी ङस् । जग्ग प्रथमा सि । पक्षे- [जागरइ ] 'जागृक् निद्राक्षये' (१०९३) जागृ । वर्तः तिव् । 'ऋवर्ण०' (४।२३४) अर० जागरइ ॥८०॥
व्याप्रेराअड्डः ॥ ८४८१ ॥ व्याप्रियतेराअड्ड इत्यादेशो वा भवति ॥ आअड्डेइ । वावरेइ ॥
[व्याप्रेराअड्डः ] व्याप्रि षष्ठी ङस् । आअड्ड प्रथमा सि । १. . I. मालईगन्धो । २. G निःसरे० ।