________________
४४४
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
[मन्युनौष्ठमालिन्ये णिव्वोलः] मन्यु तृतीया टा । ओष्ठमालिन्य सप्तमी ङि । णिव्वोल प्रथमा सि ॥६९।।
शैथिल्य-लम्बने पयल्लः ॥८४७०॥ . शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशो वा भवति ।। पयल्लइ । शिथिलीभवति लम्बते वा ॥ [शैथिल्य-लम्बने पयल्ल:] शैथिल्य-लम्बन सप्तमी ङि । पयल्ल प्रथमा सि ॥७०||
निष्याता-ऽऽच्छोटे णीलुञ्छः ॥ ८४७१ ॥ निष्पतनविषयस्य आच्छोटनविषयस्य च कगो णीलुञ्छ इत्यादेशो वा भवति ।। णीलुञ्छइ । निष्पतति आच्छोटयति वा ।। [निष्पाता-ऽऽच्छोटे णीलुञ्छः ] निष्पाता-ऽऽच्छोट सप्तमी ङि । णीलुञ्छ प्रथमा सि ॥७१॥
क्षुरे कम्मः ॥ ८४७२ ॥ क्षुरविषयस्य कृगः कम्म इत्यादेशो वा भवति ॥ कम्मइ । क्षुरं करोतीत्यर्थः ॥ [क्षुरे कम्मः] क्षुर सप्तमी ङि । कम्म प्रथमा सि ॥७२॥
चाटौ गुललः ॥ ८।४।७३ ॥ चाटुविषयस्य कृगो गुलल इत्यादेशो वा भवति ॥ गुललइ । चाटु करोतीत्यर्थः ॥ [चाटौ गुललः ] चाटु सप्तमी ङि । गुलल प्रथमा सि ॥७३॥
स्मरेझर-झूर-भर-भल-लढ-विम्हर-सुमर-पयर-पम्हहाः ॥ ८।४७४ ॥ स्मरेरेते नवादेशा वा भवन्ति ॥ झरइ । झूरइ । भरइ । भलइ । लढइ । विम्हरइ । सुमरइ । पयरइ । पम्हहइ । सरइ ॥
[स्मरेझर-झूर-भर-भल-लढ-विम्हर-सुमर-पयर-पम्हुहाः] स्मरि षष्ठी ङस् । झर-झूर-भर-भल-लढ-विम्हरसुमर-पयर-पम्हुह प्रथमा जस् ।
पक्षे- [सरइ] 'स्मं चिन्तायाम्' (१८) स्मृ । वर्त० तिव् । 'अधो म-न-याम्' (२।७८) म्लुक् । 'ऋवर्ण०' (४।२३४) सा(स)र० । 'स्वराणां स्वराः' (४।२३८) सर् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१।१।३) सरति । 'त्यादीना०' (३।१३९) तिव्० → इ० सरइ ॥७॥
विस्मुः पम्हुस-विम्हर-वीसराः ॥ ८।४।७५ ॥ विस्मरतेः एते आदेशा भवन्ति ॥ पम्हुसइ । विम्हरइ । वीसरइ । [विस्मुः पम्हुस-विम्हर-वीसराः] विस्मृ षष्ठी ङस् । पम्हुस-विम्हर-वीसर प्रथमा जस् ।।५।।
व्याहगेः कोक्क-पोक्कौ ॥८४७६ ॥ व्याहरतेरेतावादेशौ वा भवतः ॥ कोक्कइ । हूस्वत्वे तु-कुक्कइ । पोक्कइ । पक्षे - वाहरइ ॥