________________
४४८
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
पचेः सोल्ल-पउलौ ॥ ८।४।९० ॥
पचतेः सोल्ल-पउल इत्यादेशौ वा भवतः ॥ सोल्लइ । पउलइ । पय(च)इ ॥ [पचेः सोल्ल-पउलौ] पचि षष्ठी ङस् । सोल्ल-पउल प्रथमा औ ।
पक्षे- [पया च )इ] 'डुपचीष् पाके' (८९२) पच् । वर्तः तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) पचति । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ पचइ ॥१०॥
___ मुचेश्छड्डावहेड-मेल्लोस्सिक्क-रेअव-णिल्लुञ्छ-धंसाडाः ॥ ८।४।९१ ॥ मुञ्चतेरेते सप्तादेशा वा भवन्ति । छड्डइ । अवहेडइ । मेल्लइ । उस्सिक्कइ । रेअवइ । णिल्लुञ्छइ । धंसाडइ । पक्षे- मुअइ ।।
[मुचेश्छड्डावहेड-मेल्लोस्सिक्क-रेअव-णिल्लुञ्छ-धंसाडाः ] मुचि षष्ठी ङस् । छड्ड-अवहेड-मेल्ल-उस्सिक्क-रेअवणिल्लुञ्छ-धंसाड प्रथमा जस् ।
पक्षे- [मुअइ ] 'मुच्लंती मोक्षणे' (१३२०) मुच् । वर्त० तिव् । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१२१२३) मुचति । 'क-ग-च-ज०' (१११७७) च्लुक् । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० मुअइ ॥९१।।
दुःखे णिव्वलः ॥ ८।४।९२ ॥ दुःखविषयस्य मुचे: णिव्वल इत्यादेशो वा भवति ॥ णिव्वलेइ । दुःखं मुञ्चतीत्यर्थः ।। [ दुःखे णिव्वलः] दुःख सप्तमी ङि । णिव्वल प्रथमा सि ॥९२।।
वञ्चेर्वेहव-वेलव-जरवोमच्छाः ॥ ८।४।९३ ॥ वञ्चतेरेते चत्वार आदेशा वा भवन्ति ॥ वेहवइ । वेलवइ । जूरवइ । उमच्छइ । वञ्चइ ।। [वञ्चेर्वेहव-वेलव-जूरवोमच्छाः ] वञ्चि षष्ठी ङस् । वेहव-वेलव-जूरव-उमच्छ प्रथमा जस् ।
पक्षे- [वञ्चइ ] 'वञ्चिण् प्रलम्भने' (१८०५) वञ्च् । वर्त० ते । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात्' (१।१।३) वञ्चते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० वञ्चइ ॥१३॥
रचेरुग्गहा-ऽवह-विडविड्डाः ॥ ८।४।९४ ॥ रचेर्धातोरेते त्रय आदेशा वा भवन्ति ॥ उग्गहइ । अवहइ । विडविड्डइ । रयइ । [रचेरुग्गहा-ऽवह-विडविड्डाः ] रचि षष्ठी ङस् । उग्गह-अवह-विडविड्ड प्रथमा जस् ।
पक्षे- [रयइ ] 'रचण प्रतियत्ने' (१८५३) रच् । वर्त० तिव् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । 'णेरदेदावावे' (३।१४९) णिच् → अत्० । 'लोकात्' (१।१।३) रचति । 'क-ग-च-ज०' (१।१७७) च्लुक् । 'अवर्णो०' (१।१८०) अ० → य० । 'त्यादीनामाद्य०' (३।१३९) तिव्० → इ० रयइ ॥१४॥
समारचेरुवहत्थ-सारव-समार-केलायाः ॥ ८।३।९५ ॥ समारचेरेते चत्वार आदेशा वा भवन्ति ॥ उवहत्थइ । सारवइ । समारइ । केलायइ । समारयइ ॥ [समारचेरुवहत्थ-सारव-समार-केलायाः] समारचि षष्ठी ङस् । उवहत्थ-सारव-समार-केलाय प्रथमा जस् ।