________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
६१९
अपभ्रंशे रेफस्याऽधो वा लुगुक्तो मागध्यामपि भवति ।।
शद-माणुश-मंश-भालके कुंभ-शहश्र-वशाहे शंचिदे । इत्याद्यन्यदपि द्रष्टव्यम् ॥ न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति । ये वर्तमाने काले प्रसिद्धास्ते भूतेऽपि भवन्ति ॥
अह पेच्छड़ रहुतणओ ॥ अथ प्रेक्षांचक्रे रघुतनय इत्यर्थः ।
आभासइ रयणीअरे ॥ आबभाषे रजनीचरानित्यर्थः ।
भते प्रसिद्धा वर्तमानेऽपि ॥ सोहीअ एस वंठो । शणोत्येष वण्ठ इत्यर्थः ।
[व्यत्ययश्च] व्यत्यय प्रथमा सि । च प्रथमा सि । [शद-माणुश-मंश-भालके कुंभ-शहश्र-वशाहे शंचिदे] गद्यम् । अर्थः- शत-मानुष-मांस-भारकः कुम्भसहस्रवशायाः सञ्चितमित्यर्थः ॥४४७॥
शेषं संस्कृतवत् सिद्धम् ॥ ८।४।४४८ ॥ शेष यदत्र प्राकृतादिभाषासु अष्टमे नोक्तं तत् सप्ताध्यायीनिबद्धसंस्कृतवदेव सिद्धम् ॥ हेर्ट-ट्ठिय-सूर-निवारणाय छत्तं अहो इव वहंती । जयइ ससेसा वरांह-सास-दुरुक्खया पुहवी ॥१॥
अत्र चतुर्थ्या आदेशो नोक्तः, स च संस्कृतवदेव सिद्धः । उक्तमपि क्वचित् संस्कृतवदेव भवति । यथा प्राकृते उरस्शब्दस्य सप्तम्येकवचनान्तस्य उरे-उरम्मि इति प्रयोगौ भवतस्तथा क्वचिदुरसीत्यपि भवति । एवम् - सिरे - सिरम्मि - सिरसि । सरे-सरम्मि-सरसि ।।
सिद्धग्रहणं मङ्गलार्थम् । ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति । [शेषं संस्कृतवत् सिद्धम् ] शेष प्रथमा सि । संस्कृतवत् प्रथमा सि । सिद्ध प्रथमा सि । [हेट्ठियसूरनिवारणाय...........] अध:स्थितसूर्यनिवारणायेत्यर्थः । चतुर्थपादे सूत्रसंख्या ४४५ (४४८) ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तावष्टमस्याऽध्यायस्य चतुर्थः पादः ॥ शब्दानुशासनवृत्तिः प्रकाशिकानामेति ॥ आसीद्विशाम्पतिरमुद्रचतुःसमुद्रमुद्राङ्कितक्षितिभरक्षमबाहुदण्डः । श्रीमूलराज इति दुर्द्धरवैरिकुम्भिकण्ठीरवः शुचिचुलुक्यकुलावतंसः ॥१॥ तस्यान्वये समजनि प्रबलप्रतापतिग्मद्युतिः क्षितिपतिर्जयसिंहदेवः ।। येन स्ववंशसवितर्यपरं सुधांशौ श्रीसिद्धराज इति नाम निजं व्यलेखि ॥२॥
१. अध:स्थितसूर्यनिवारणाय छत्रमध इव वहन्ती । जयति सशेषा वाराहश्वासदूरोत्क्षिप्ता पृथिवी ॥ [ग० व० -१५] २. ग० व० - वाराह ।