________________
६१८
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
अत्र अंत्र(त)डी इति नपुंसकस्य स्त्रीत्वम् । सिरि चडिआ खंति प्फलई पुणु डालई मोडंति । तो-वि महदुम सउणाहं अवराहिउं न करंति ॥४॥ अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम् । [लिङ्गमतन्त्रम् ] लिङ्ग प्रथमा सि । अतन्त्र प्रथमा सि । [गय-कुंभई दारंतु] पूर्वं लिखितम् । [४।३४५-१] । [अब्मा लग्गा डुंगरेहि.............]
अस्यार्थः- पर्वतेषु अभ्राणि-मेघा लग्नानि । पथिको रटन् याति । उत्तरार्द्ध रटनकारणमाह-यो मेघो गिरिगलनमनाः स ईदक कि नायिकाया धनानीच्छति ? तां न रक्षतीति भाव इत्यर्थः ।
[पाइ विलग्गी अंत्र( त )डी........]
अस्यार्थः- अन्त्रं पादे विलग्नम् । शिरः स्कन्धं प्रति ल्हसितं-स्रस्तम् । ततोऽपि हस्तः क्षुरिकायाम् । अहं कान्तस्य बलि क्रिये इत्यर्थः ।
[सिरि चडिआ खंति प्फल..........]
अस्यार्थः- शिरसि चटिताः । फलानि खादन्ति । पुनः शाखा मोटयन्ति । ततोऽपि महाद्रुमा शकुनानामपराधं न कुर्वन्तीत्यर्थः ॥४४६।।
शौरसेनीवत् ॥ ८।४।४४६ ॥ अपभ्रंशे प्रायः शौरसेनीवत् कार्यं भवति । सीसि सेहरु खणु विणिम्मविदु । खणु कंठि पालंबु किदु रदिए विहिदु खणु मुंडमालिए । जं पणएण तं नमहु कुसुम-दाम-कोदंडु कामहो ।। [शौरसेनीवत्] शौरसेनीवत् प्रथमा सि । [सीसि सेहरु खणु विणिम्मविदु..........]
गद्यार्थः- कामस्य तत् कुसुमदामकोदण्डं प्रणयेन-स्नेहेन नमत । तत्कियद्धनु ? रत्या कामभार्यायाः क्षणं शीर्षे शेखरो विनिर्मापितम् । यत् क्षणं कण्ठे प्रालम्बः कृतः । यत् क्षणं मुण्डमालिका मस्तके विहितमित्यर्थः । अत्र 'तो दोनादौ शौरसेन्यामयुक्तस्य' (४।२६०) इति तस्य दः ॥छ।।
व्यत्ययश्च ॥ ८।४।४४७ ॥ प्राकृतादिभाषालक्षणानां व्यत्ययश्च भवति ॥ यथा मागध्यां "तिष्ठश्चिष्ठः' (४।२९८) इत्युक्तं तथा प्राकृत-पैशाची-शौरसेनीष्वपि भवति ॥ चिष्ठदि । १. G. H. मुण्डमालिकायाम् I M. मुण्डमालिकीयाम् ।