________________
अष्टमाध्यायस्य चतुर्थः पादः ।।
६१७
नाव।। पेक्खेविणु मुहु जिणवरहो दीहर-नयण-सलोणु ।
नावइ गुरु-मच्छर-भरिउ जलणि पवीसइ लोणु ॥४॥ ॥जणि।। चंपय-कुसुमहो मज्झि सहि ! भसलु पइट्ठउ ।
सोहइ इंदनीलु जणि कणइ बइट्ठउ ॥५॥ ॥जणु। निरुवम-रसु पिएं पिअवि जणु ॥६॥ [४।४०१-३] । [इवार्थे नं-नउ-नाइ-नावइ-जणि-जणवः] इवार्थ सप्तमी ङि । नं-नउ-नाइ-नावइ-जणि-जणु प्रथमा जस् । [नं मल्ल-जुज्झु ससि-राहु करहिं] पूर्वं लिखितम् । [४।३८२-१] । अत्र नं उत्प्रेक्षायाम् । [रवि-अत्थमणि समाउलेण. ...]
अस्यार्थः- रव्यस्तमने समाकुलेन चक्रेण-चक्रवाकेन कण्ठे वितीर्णं दत्तम् । मृणालिकायां(याः). खण्डं न छिन - न खण्डितम् । नउ उत्प्रेक्ष्यते । जीवार्गला दत्तेत्यर्थः ।
[वलयावलि-निवडण-भएण.........]
अस्यार्थः- नायिका वलयावलिनिपतनभयेन ऊर्ध्वभुजा याति । नाइ उत्प्रेक्ष्यते । वल्लभविरहमहाहूदस्य स्ताघं गवेषयतीत्यर्थः ।
[पेक्खेविणु मुहु जिणवरहो............]
अस्यार्थः- नावइ उत्प्रेक्ष्यते । गुरुमत्सरभृतं लवणं ज्वलने प्रविशति । किंकृत्वा ? जिनवरस्य दीर्घनयनं सलवणंसलावण्यं मुखं प्रेक्ष्येत्यर्थः ।
[चंपय-कुसुमहो मज्झि............ अस्यार्थ:- हे सखि ! चम्पककुसुममध्ये भ्रमरः प्रविष्टः । जणि उत्प्रेक्ष्यते । कनके उपविष्टमिन्द्रनीलं रत्नं शोभते इत्यर्थः । [निरुवम-रसु पिएं पिअवि जणु] पूर्वं लिखितम् । [४|४०१-३] । अत्र जणु उत्प्रेक्षायाम् ॥४४४॥
लिङ्गमतन्त्रम् ॥ ८।४।४४५ ॥ अपभ्रंशे लिङ्गमतन्त्रं व्यभिचारि प्रायो भवति । गय-कुंभई दारंतु ॥१॥ [४।३४५-१] । अत्र पुल्लिङ्गस्य नपुंसकत्वम् । अब्भा लग्गा डुंगरेहिं पहिउ रडंतउ जाइ । . जो एहा गिरि-गिलण-मणु सो किं धणहे धणाइ ? ॥२॥ अत्र अब्भा इति नपुंसकस्य पुंस्त्वम् । पाइ विलग्गी अंत्र(त)डी सिरु ल्हसिंउ खंधस्सु । तो-वि कटारइ हत्थडउ बलि किज्जउं कंतस्सु ॥३॥
१. N. टि० सोहेइ ऐसे पाठ की कल्पना करें तो छन्दभंग नहीं होगा । २. G. H. M. डुंगरिहिं । ३. दाहिणकरेण खग्गं वामेण सिरं धरेइ निवडतं । अंतावेढियचलणो जाइ भडो एक्कमेक्कस्स ॥ [व. ल. - सुहडवज्जा-१६७६]
दक्षिणकरेण खङ्गं वामेन शिरो धारयति निपतत् । अन्त्रावेष्टितचरणो याति भट एकैकस्य । ४. G. ल्हसिअउं ।