________________
६२०
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
सम्यग्निषेव्य चतुरश्चतुरोऽप्युपायान् जित्वोपभुज्य च भुवं चतुरब्धिकाञ्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा काष्टामवाप पुरुषार्थचतुष्टये यः ॥३॥ तेनातिविस्तृतदुरागमविप्रकीर्णशब्दानुशासनसमूहकर्थितेन । अभ्यर्थितो निरवमं विधिवद् व्यधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः ॥४॥ ग्रंथाग्रं - २१८५ श्लोकाः । मूलसूत्र-एकवीशी पंच्याशी । दूहकानां संख्या - १६५ मिति ।
संवत् १९४२ ना वर्षे जेष्ठमासे शुक्लपक्षे पञ्चम्यां तिथौ इन्दुवासरे लं । मु । खुबचन्देन । श्रीजामनयरे । श्रीशान्तिनाथप्रसादात् ॥ श्री तपागच्छे ॥ शिवमस तु लेखकवाचकयोनिरन्तरम् ॥
झवेरि ताराचंद प्रागजी तथा झवेरि लखमीचंद हीराचंद तथा पारेख हंसराज वेलजीए मली मुनिराज मोहनविजयजीने आ परत वोहरावी छ।
इति बृहत्तपागच्छे श्रीश्रीश्रीश्रीसौभाग्यसागरसूरिशिष्येण हर्षकुलपण्डितवचःप्राप्तप्रयोगरहस्येन उदयसौभाग्यगणिना लिखातायां हैमप्राकृतवृत्तिढुण्ढिकायां व्युत्पत्तिदीपिकाभिधानायां सर्वप्रयोगविशेषव्युत्पत्तिप्रकाशिकायां चतुर्थः पाद समर्थितः ॥
श्रीमद्गुरुतपागच्छ-प्राज्यसाम्राज्यकारकाः । अभूवन् भुवनख्याता लब्धिसागरसूरयः ॥१॥ तत्पट्टप्रकटाम्भोजे भजन्ते राजहंसताम् । विजयन्तेऽधुना तेऽमी धनरत्नगुरूत्तमाः ॥२॥ श्रीलब्धिसागराचार्य-परिचर्याऽनुभावतः । प्राप्तोदया[:] श्रीसौभाग्य-सागराः सन्ति सूरयः ॥३॥ श्रीमल्लघुतपागच्छे विपश्चिन्मौलिमण्डनम् । श्रीहर्षकुलनामानः पण्डिता गुणमण्डिताः ॥४॥ तत्पाद्येऽध्येष्टा सकलं हैमप्राकृतलक्षणम् । सर्वप्रयोगव्युत्पत्ति-रहस्यं लब्धवांश्च ये(यः) ॥५॥ सोऽहं सौभाग्यपाथोधि-सुगुरुक्रमसेवया । सुद्धी(धी)रुदयसौभाग्य[:] प्रचक्रे ढुण्ढिकामिमाम् ॥६॥ विश्वजातिरिपुवात-ध्वान्तध्वंसनभास्करे । पार्वणेन्दुलसत्कीर्ति-धवलीकृतभूतले ॥७॥ प्रणमत् प्रौढपृथ्वीश-कोटीरद्योतिविक्रमे ।
बाहदरसुरत्राणे राज्यं पालयति क्षितौ ॥८॥ श्रीस्तम्भतीर्थनगरे भूम्यकतिथि १५९१ संति मिते वर्षे हर्षविहितो ग्रन्थोऽयं जयतात् चिरम् ॥