________________
६०६
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
[सुमरिज्जइ तं वल्लहउं............]
अस्यार्थः- तद्वल्लभं वस्तु स्मर्यते यन्मनाक् विस्मरति । यस्मिन् वस्तुनि पुनः स्मरणं यावद्गतं तस्य स्नेहस्य कि नाम ? न किञ्चिदित्यर्थः ।
[पुणु ] पुनर् । अनेन डुप्र० → उ० । 'डित्यन्त्य०' (२।१।११४) अलुक् । 'लोकात्' (१।१।३) पुनु० । 'नो णः' (१।२२८) पुणुः ।
[विणु जुज्झें न वलाहुं] पूर्वं लिखितम् । [४।३८६-१] ।
[विणु] विना । अनेन डुप्र० → उ० । 'डित्यन्त्य०' (२२२११४) आलुक् । 'लोकात्' (१।१।३) विनु० । 'नो णः' (१।२२८) नु० → णु० विणु० ॥४२६।।
अवश्यमो डें-डौ ॥ ८।४।४२७ ॥ अपभ्रंशेऽवश्यमः स्वार्थे डें-ड इत्येतौ प्रत्ययौ भवतः ॥ जिर्भिदिउ नायगु वसिकरहु जसु अधिन्नई अन्नई । मूलि विणट्ठइ तुंबिणिहे अवसे सुक्कहि(इं) पण्णइं ॥१॥ अवस न सुअहिं सुहच्छिअहिं ॥२॥ [४।३७६-२] । [अवश्यमो डें-डौ] अवश्यम् षष्ठी ङस् । डें-ड प्रथमा औ । [जिभिदिउ नायगु वसिकरहु..............]
जिम्हे(आँ)न्द्रियं वशे(शी)कुरुत । अन्यानीन्द्रियाणि यस्याधीनानि वर्त्तन्ते इति शेषः । तुम्बिन्या मूले विनष्टे अवश्य पर्णानि शुष्कन्तीत्यर्थः ।
[अवसें] अवश्यम् । अनेन डेंप्र० → एं । 'डित्यन्त्य०' (२।१।११४) अम्लुक् । 'अधो म-न-याम्' (२।७८) य्लुक् । 'श-षोः सः' (१।२६०) श० → स० अवसें ।
[अवस नसुअर्हि सुहच्छिअहिं] पूर्वं लिखितम् । [४।३७६-२] । [अवस] अवश्यम् । अनेन डप्र० → अ० । 'डित्यन्त्य०' (२।१।११४) अम्लुक् । शेषं पूर्ववत् । अवस ॥४२७॥
एकशसो डिः ॥ ८।४।४२८ ॥
अपभ्रंशे एकशश्शब्दात् स्वार्थे डिर्भवति ॥ एक्कसि सील-कलंकिअहं दिज्जहिं पच्छित्ताई । जो पुणु खंडइ अणुदिअहु तसु पच्छित्ते काई ? ॥१॥ [एकशसो डिः] एकशस् पञ्चमी ङसि । डि प्रथमा सि ।
१. पंचहँ णायकु वसिकरहु जेण होंति वसि अण्ण । मूल विण?इ तरुवरहँ अवसइँ सुक्कहिं पण्ण ॥
- [प० प्र० - द्वितीयो महाधिकारः- श्लोकः १४०] पञ्चानां नायकं वशीकुरुत येन भवन्ति वशे अन्यानि । मूले विनष्टे तरुवरस्य अवश्यं शुष्यन्ति पर्णानि ॥ २. M. वसि करहु = वशे कुरुत । . वशीकुरु ।