________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
६०५
अम्मडि ! पच्छायावडा पिउ कलहिअउ विआलि । घई विवरीरी बुद्धडी होइ विणासहो कालि ॥१॥ आदिग्रहणात् खाई इत्यादयः ।। [घइमादयोऽनर्थकाः ] घइमादि प्रथमा जस् । अनर्थक प्रथमा जस् । [अम्मडि ! पच्छायावडा.............]
हे अम्ब ! पश्चात्तापो वर्तते । विकाले-सन्ध्यायां प्रियः कलहायित:- कलहयुक्तो विहितः । विनाशस्य काले विपरीता बुद्धिर्भवतीत्यर्थः ॥४२४॥
तादर्थ्य केहि-तेहि-रेसि-रेसिं-तणेणाः ॥ ८।४।४२५ ॥ अपभ्रंशे तादर्से द्योत्ये केहिं - तेहिं - रेसि - रेसिं - तणेण इत्येते पञ्च निपाताः प्रयोक्तव्याः ॥ ढोल्ला ! एह परिहासडी अइभण कवणहिं देसि । हउं झिज्जउ तउ केहिं पिअ ! तुहु पुणु अन्नहे रेसि ॥१॥ एवं तेहि-रेसिमावुदाहायौं । वड्डत्तणहो तणेण ॥२॥ [तादर्थ्य केहि-तेहि-रेसि-रेसिं-तणेणाः] तादर्थ्य सप्तमी ङि । केहि-तेहि-रेसि-रेसिं-तणेण प्रथमा जस् । [ ढोल्ला ! एह परिहासडी.........]
अस्यार्थः- हे नायक ! एषा परिभाषा - रीति: 'अतिभण-अत्यद्भुता वर्तते इति शेषः । हे प्रिय ! अहं तव कृते क्षये - क्षयं प्राप्नोमि त्वं पुनरन्यस्याऽर्थे क्षीयसे इत्यर्थः ।। [वड्डत्तणहो तणेण] पूर्वं लिखितम् । [४।३६६] । अनेन तादर्थ्ये तणेण ॥४२५॥
पुनर्विनः स्वार्थे डुः ॥ ८।४।४२६ ॥ अपभ्रंशे पुनर्विना इत्येताभ्यां परः स्वार्थे डुः प्रत्ययो भवति ॥ सुमरिज्जइ तं वल्लहउं जं वीसरइ मणाउं । जहिं पुणु सुमरणु 'जाउं गउ तहो नेहडो कई नाउं ? ॥१॥ विणु जुज्झें न वलाहुं ॥२॥ [४३८६-१] ।
[पुनर्विनः स्वार्थे दुः] पुनर्-विना षष्ठी ङस् । स्वार्थ सप्तमी ङि । डु प्रथमा सि । १. M. N. अइ भण = अयि भण। P. अइभ = अतिभा - अत्यद्भुता । न-नास्ति । २. सो णाम संभरिज्जइ पब्भसिओ जो खणं पि हिअआहि । संभरिअव्वं च कअंगअं अ पेम्मं णिरालम्बं ॥
[गा० स० -१९५] स नाम संस्मर्यते प्रभ्रष्टो यः क्षणमपि हृदयात् । स्मर्तव्यं च कृतं गतं च प्रेम निरालम्बम् ॥ ३. N. जाउ = जातम् ।