________________
६०४
व्युत्पत्तिदीपिकाभिधान-दुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ।
हुहुरु-घुग्घ्यादयः शब्द - चेष्टाऽनुकरणयोः ॥ ८।४।४२३ ॥ अपभ्रंशे हुहुर्वादयः शब्दानुकरणे घुग्घ्यादयश्चेष्टानुकरणे यथासंख्यं प्रयोक्तव्याः ॥ मई जाणिउ बुड्डीसु हउं पेम्म-द्रहि हुहुरु-त्ति । नवरि अचिंतिय संपडिय विप्पिय-नाव झडत्ति ॥१॥ ॥ आदिग्रहणात् ॥ खेज्जइ नउ कसरक्केहिं पिज्जइ नउ घुटेहिं ।
एवंइ होइ सुहच्छडी पिएं दिढें नयणेहिं ॥२॥ अज्ज-वि नाहु महु-ज्जि घरि सिद्धत्था वंदेइ ।। ताउँ-जि विरहु गवक्खेहिं मक्कड-घुग्घिउ देइ ॥३॥ ॥ आदिग्रहणात् ।। सिरि जर खंडी लोअडी गलि मणिअडा न वीस ।
तो-वि गोट्ठडा कराविआ मुद्धए उटुंबईस ॥४॥ [हुहुरु-घुग्घ्यादयः] हुहुरु-घुग्घ्यादि प्रथमा जस् । [शब्द-चेष्टाऽनुकरणयोः] शब्द-चेष्टाऽनुकरण सप्तमी ओस् । [ मई जाणिउ बुड्डीसु हाउ............] 'अस्यार्थः- मया ज्ञातम्, अहं प्रेमहूदे बुडिष्यामि हुहुरु इति शब्दाऽनुकरणं कृत्वा । नवरं-केवलं मया विप्रियनौः - वियोगे बेडा झटिति सम्पतिता-सम्प्राप्तेत्यर्थः ।
अनेन शब्दाऽनुकरणे हुहुरु इति । [खज्जइ नउ कसरक्केहि............]
अस्यार्थः- कसरक्कैर्न तु खाद्यते । घुण्टैर्न तु पीयते । एवमेव सुखाशा - समाधिर्भवति । क्व सति ? नयनाभ्यां प्रिये दृष्टे सतीत्यर्थः ।
[अज्ज-वि नाहु महु-ज्जि.....
अस्यार्थ:- अद्यापि नाथो ममैव गृहे सिद्धार्थान् वन्दते । अर्थाच्चलितुकामोऽस्ति, तावदेव विरहो गवाक्षेषु मर्कटचेष्टां ददातीत्यर्थः ।
[सिरि जर-खंडी लोअडी...........
अस्यार्थ:- ततोऽपि मुग्धया गोष्ठं-गोकुलं तत्र तिष्ठन्तीति गोष्ठाः । तात्स्थ्यात् तद्व्यपदेशः इति न्यायात् । गोष्ठस्थाः पुरुषा उत्थानोपवेशनं चेष्टानुकरणं कारिताः । यस्याः स्त्रियाः शिरसि जराखण्डिता लोमपटी-जीर्णा कम्बलिका वर्तते । यस्य(याः) गले विंशतिर्मणीयका न सन्तीत्यर्थः ।।४२३॥
घइमादयोऽनर्थकाः ॥ ८।४।४२४ ॥ अपभ्रंशे घइमित्यादयो निपाता अनर्थकाः प्रयुज्यन्ते ॥
..............
१. खज्जति टसत्ति न भंजिऊण पिज्जति नेव घुटेहिं । तह-वि कुणंति तित्ति आलावा सज्जण-जणस्स ॥ [गा० र०- ८४]