________________
अष्टमाध्यायस्य चतुर्थः पादः ॥
६०३
[जो पुणु मणि-जि खसफसिहू........]
अस्यार्थः- यः पुनर्मनस्येव व्याकुलीभूतः सन् चिन्तयति, द्रम्मं न ददाति न रूपकम् । स मूढो रतिवशेन भ्रमणशील: सन् कराग्रोल्लालितं कुन्तं-भल्लं गृहे एव गुणयति-चालयतीत्यर्थः ।
[नालिउ] मूढ । अनेन मूढस्य नालिअ० | प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) अ० → उ० नालिउ । [दिवेहिं विढत्तउं खाहि वढ !] पूर्वं लिखितम् [४।४२२-४] । [वढ !] मूढ ! । अनेन मूढस्य वढ !। [नवखी क-वि विस-गंठि] पूर्वं लिखितम् । [४।४२०] । [नवखी ] नव । अनेन नवस्य नवख० । [चलेहिं वलंतेहिं लोअणेहिं............]
अस्यार्थः- हे बाले ! चलैर्वलमानैश्च लोचनैर्ये त्वया दृष्टास्तेषु मकरध्वजावस्कन्दः कन्दर्पधाटी पतति । कदा ? अपूर्णकाले इत्यर्थः ।
[दडवडउ] अवस्कन्द । अनेन दडवड० । प्रथमा सि । 'स्यमोरस्योत्' (४।३३१) दडवडउ । [छुडु अग्घइ ववसाउ] पूर्वं लिखितम् । [४।३८५-१] । [छुडु] यदि । अनेन “यदि" स्थाने छुडु० । [गयउ सु केसरि पिअहु जलु........]
अस्यार्थः- हे हरिणाः ! स केसरी गतः । यूयं निश्चिताः सन्तो जलं पिबत । यस्य सम्बन्धिना हुङ्कारेण मुखेभ्यस्तृणानि पतन्तीत्यर्थः ।
[केरएं] सम्बन्धिन् । अनेन सम्बन्धिनः केर इति । तृतीया टा । 'एं चेदुतः' (४।३४३) टाया एं० केरएं ।
[अह भग्गा अम्हहं तणा] पूर्वं लिखितम् । [४।३७९-३] ।
[तणा] सम्बन्धिन् । अनेन सम्बन्धिनस्तण इति । प्रथमा जस् । 'जस्-शस्-ङसि-त्तो०' (३।१२) दीर्घः । 'जस्शसोलुंक् (३।४) जस्लुक् तणा ।
[सत्थावत्यहं आलवणु...........]
अस्यार्थः- स्वस्थावस्थानामालपनं सर्वोऽपि लोकः करोति, परमार्तानां मा भैषीः इति य आश्वासनो ददासि स सज्जन इत्यर्थः ।
[मब्भीसा] मा भैषीः । अनेन मा भैषीरित्यस्य मब्भीसा । [जइ रच्चसि जाइट्ठिअए............]
अस्यार्थः- हे हृदय ! हे मुग्धस्वभाव ! यद् यद् दृष्टं तत्तत्तत्र यदि रज्यसे तत्तर्हि त्वया लोहेनेव स्फुटता सता घनास्तापाः सहिष्यते इत्यर्थः ।
[जाइट्ठिआए] यद् यद् दृष्टं तत्तदित्यस्य जाइट्ठिअ । सप्तमी ङि । 'ङिनेच्च' (४।३३४) जाइट्ठिअए ॥४२२॥